________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ३ स.." चोत्तरचरं च सहचरं च स्वभावव्यापककार्यकारणपूर्वचरोत्तरचरसहचराणि तेषामनुपलब्धिः । इतिशब्दः प्रकारपरिसमाप्त्यर्थः । ततश्च स्वभावानुपलब्धिः, ब्यापकानुपलब्धिः, कार्यानुपलब्धिः, कारणा
नुपलब्धिः, पूर्वचरानुपलब्धिः , उत्तरचरानुपलब्धिः , सहचरानुपलब्धि५ श्चेति प्रतिषेधप्रतिपत्तौ सप्तप्रकारत्वमनुपलब्धेः सिद्धं भवति ॥११॥
अंथ क्रमेणोदाहरणसप्तकमाहस्वभावानुपलब्धिर्यथा नास्त्यत्र भूतले कुम्भः । उपलब्धिलक्षणप्राप्तस्य तत्स्वभावस्यानुपलम्भादिति
॥१२॥ १० उपलब्धिलक्षणप्राप्तस्येति, उपलब्धिर्ज्ञानं तस्या लक्षणानि कार
णानि चक्षुरादीनि । तैर्युपलब्धिलक्ष्यते जन्यत इति यावत् । तानि प्राप्तो जनकत्वेनोपलब्धिकारणान्तर्भावादुपलब्धिलक्षणप्राप्तो दृश्य इत्यर्थः । तथाविधस्य तत्स्वभावस्य कुम्भस्वरूपस्यानुपलम्भादनुपलब्धेः । यथाशब्द उदाहरणोपदर्शनार्थ इहोत्तरत्र च मन्तन्यः । इहोपलब्धिलक्षणप्राप्तस्येति यद्विशेषणं तत्यिशाचादिव्यभिचारपरिहारार्थम् । पिशाचादीनां हि स्वभावो नोपलभ्यतेऽथ च ते नास्तित्वेनावगन्तुं न शक्यन्ते । कथं पुनर्यो घटादिर्नास्ति स'उपलब्धिलक्षणप्राप्तस्तत्प्राप्तत्वे कथं तस्यासत्त्वमिति चेत् । उच्यते । आरोप्यैतद्रूपं निषिध्यते । सर्व
त्रारोपितरूपविषयत्वान्निषेधस्य । यथा नायं गौर इति । न ह्यत्रैतच्छक्यं २० वक्तुं सति गौरत्वे न निषेधो निषेधे न वा गौरत्वमिति । नन्वेव
मदृश्यमपि पिशाचादिकं दृश्यरूपतयारोप्य प्रतिषिध्यतामिति चेत् । नैवम् । आरोपयोग्यत्वं हि यस्यास्ति तस्यैवारोपः । यश्चार्थो विद्यमानो नियमेनोपलभ्येत स एवारोपयोग्यो न तु पिशाचादिः । उप
लम्भकारणसाकल्ये हि विद्यमानो घटो नियमेनोपलम्भयोग्यो गम्यते न २५ पुनः पिशाचादिः । घटस्योपलम्भकारणसाकल्यं चैकज्ञानसंसर्गिणि
"Aho Shrut Gyanam"