________________
पोरे. ३ सू. ९१] स्याद्वादरत्नाकरसहितः
उपलब्धिहेतुरेवं विधिमुखतो विधिनिषेधबोधकरः ।।
द्वात्रिंशतेह भेदैः संयुक्तो व्यक्तमुक्तोऽयम् ॥ ५२० ।। दोषप्रोषितपक्षनाभिसुभगं व्याप्योपलम्भादिक
द्वात्रिंशत्प्रमितप्रभेदसतरप्रस्तारणापीवरम् ॥ सम्यग्व्याप्तिसुवृत्तिनेमिघटितं साध्यं निजं साधयन्
जैनानामुपलब्धिचक्रमसमं जीयात्तदेतद्भुवि ॥ ५२१ ॥ तदेवं कस्यचिदर्थस्य विधौ प्रतिषेधे चोपलब्धिलक्षणहेतुभेदानभि. घाय सम्प्रति कस्यचिदर्थस्य निषेधे विधौ चानुपलब्धिप्रकारप्रपञ्चं निश्चेतुकामस्तयापकं मौलं प्रकारद्वयमाहअनुपलब्धेरपि द्वैरूप्यमविरुद्धानुपलब्धिविरुद्धानु- १०
पलब्धिश्चेति ॥ ८९॥ अविरुद्धस्य प्रतिषेध्येनार्थेन सह विरोधमप्राप्तस्य वस्तुनोऽनुपलब्धिरविरुद्धानुपलब्धिः । विरुद्धस्य प्रतिषेयेन सह विरोधमागतस्यानुपलब्धिर्विरुद्धानुपलब्धिश्चेति ।। ८९॥
सम्प्रत्यविरुद्धानुपलब्धेविषयकथनपुरःसरं प्रकारमाहतत्राविरुद्धानुपलब्धिः प्रतिषेधावबोधे सप्तप्रकारेति
॥९ ॥ निगदसिद्धमदः ॥ ९ ॥
तानेव प्रकारानाहप्रतिषेध्येनाविरुद्धानां स्वभावव्यापककार्यकारण- २० पूर्वचरोत्तरचरसहचराणामनुपलब्धिरिति ॥ ९१ ॥
प्रतिषेध्येन वक्ष्यमाणेन कुम्भादिना सार्धमविरुद्धानां विरोधमनधिरूढानाम् । स्वभावश्च व्यापकं च कार्य च कारणं च पूर्वचरं
"Aho Shrut Gyanam"