________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ३ स. ८८ यति, दुःखं च निवर्तमानं दुःखकारणं निषेधति। एवं नेहाप्रतिबद्धसाम
•नि शीतकारणानि सन्ति वहेरित्यादीन्यप्युदाहरणान्यवसेयानि । व्यापकविरुद्धोपलब्धियथा--न सन्निकर्षादिःप्रमाणमज्ञानत्वादिति प्रतिषेध्यमिह सन्निकर्षादेः प्रमाणत्वं तस्य व्यापकं ज्ञानत्वं तेन विरुद्धमज्ञानत्वं ५ लञ्च सन्निकर्षादावुपलभ्यमानं ज्ञानत्वं निवर्तयति तच्च निवर्तमानं ततः
प्रमाणत्वं निवर्त्तयति । ज्ञानत्वं हि प्रमाणाप्रमाणयोरुभयोरपि साधारणमिति व्यापकं प्रमाणत्वं तु विना नाऽन्यत्र क्वापि ज्ञानत्वेनेति व्याप्यं तत् । एवं नात्र तुषारस्पों वहेरित्येवमादीन्यस्यामवसे यानि ।
कारणविरुद्धोपलब्धिर्यथा नास्य महर्मिथ्याचारित्रमस्ति सम्यग्विज्ञा२० नोपलम्भात् । मिथ्याचारित्रमिह प्रतिषेध्यं तस्य कारणं मिथ्याज्ञानं
तद्विरुद्धं सम्यग्ज्ञानं तत्कुतश्चित्सम्यगुपदेशादेर्लिङ्गात्प्रसिद्धयन्मिथ्याज्ञानं निवर्तयति । तच्च निवर्तमानं मिथ्याचारित्रलक्षणं स्वकार्य निवर्तयति । ननु च सम्यग्विज्ञानान्मिथ्याज्ञाननिवृत्तिन मिथ्याचारित्रस्य
निवर्तिका प्रादुर्भूततत्त्वज्ञानस्यापि पुंसोऽचारित्रप्रसिद्धेः "पूर्वद्वयं१५ सम्पद्यपि तेषां भजनीयमुत्तरं भवति ॥ पूर्वद्वयलाभः पुनरुत्तरलामे
भवति नियतः॥१॥” इति प्रशमरतौ भगवदुमास्वातिवाचकमुख्यवचनप्रामाण्यात् । अन्यथा तयाघातादिति चेत् । नैवम् । मिथ्याचारित्रस्य मिथ्यागमादिज्ञानपूर्वस्य पञ्चाग्निसाधनादेनिषेध्यत्वाच्चारित्रमोहोदये सति निवृत्तिपरिणामामावलक्षणस्याचारित्रस्य तु निषेध्यत्वे२. नानानिष्टेरिति । एवं नासौ रोमहर्षादिविशेषवानसमीपवर्तिपावकविशेषत्वादित्यादीन्यप्युदाहरणान्यभ्यूह्यानि । तदित्थं विरुद्धोपलब्धेभैदाः सप्त सूत्रोक्ताः षोडशभिस्त्रिभिश्चैतैर्भेदैः सह षडिंशतिः सम्पन्नाः । पूर्वोक्ताऽविरुद्धोपलब्धिभेदषट्प्रक्षेपे तु द्वात्रिंशदुपलब्धिलक्षणा हेतुभेदाः संवृत्ताः । एतद्नुसारेण वाऽन्येऽपि प्रज्ञाशालिभिः परामर्शनीयाः ।
१५.र. पा..
"Aho Shrut Gyanam"