________________
परि. ३ सु. ८८ } स्याद्वादरत्नाकरसहितः,
१०७ विरुद्धव्याप्योपलब्धियथा-ने सन्त्यस्य तत्त्वज्ञानविशेषा मिथ्यार्थोपदेशेग्रहणविशेषादिति । तत्त्वज्ञानविशेषाणां हि व्यापकं तत्त्वज्ञानसामान्य तस्य कारणं तत्त्वार्थोपदेशमहणं तद्विरुद्धं मिथ्यार्थोपदेशग्रहणसामान्य तेन व्याप्यो मिथ्यार्थोपदेशग्रहणविशेष इति । कारणविरुद्धसहचरोपलब्धियथा--न सन्त्यस्य प्रशमादीनि मिथ्याज्ञानादिति । प्रशमादीनां हि ५ कारणं सम्यग्दर्शनं तद्विरुद्धं मिथ्यादर्शनं तत्सहचरं मिथ्याज्ञानमिति । व्यापकविरुद्धसहचरोपलब्धियथा--सन्त्यस्य मिथ्यादर्शनविशेषाः सम्यरज्ञानादिति । मिथ्यादर्शनविशेषाणां हि व्यापकं मिथ्यादर्शनसामान्य तद्विरुद्धं तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तत्सहचरं सम्यग्ज्ञानमिति । कारणव्यापकविरुद्धसहचरोपलब्धिर्यथा—न सन्त्यस्य प्रशमादीनि १५ मिथ्याज्ञानादिति । प्रशमादीनां हि कारणं सम्यग्दर्शनविशेषास्तेषां ज्यापर्क सम्यग्दर्शनसामान्य तद्विरुद्धं मिथ्यादर्शनं तत्सहचरं. मिथ्याज्ञानमिति । व्यापककारणविरुद्धसहचरोपलब्धिर्यथा-न- सन्त्यस्य मिथ्यादर्शनविशेषाः सत्यज्ञानादिति । मिथ्यादर्शनविशेषाणां हि व्यापक मिथ्यादर्शनसामान्यं तस्य कारणं दर्शनमोहोदयस्तद्विरुद्धं सम्यग्दर्शनं १५ तत्सहचरं तत्त्वज्ञानमिति । . अत्रःच संग्रहश्लोको. पारम्पर्येण कार्य स्यात्कारणं व्याप्यमेव च ॥ सहचारि च निर्दिष्टं प्रत्येक तञ्चतुर्विधम् ॥ ५१८ ॥ कारणोद्दिष्ट कार्यादिभेदेनोदाहृतं यथा ॥
२० इत्थं षोडशभेदं तद्विज्ञेयं मतिशालिभिः ॥ ५१९ ॥ तथेदमन्यदपि भेदत्रयं पारम्पर्येणं विरुद्धोपलब्धेः सम्भवति । तद्यथाकार्यविरुद्धोपलब्धिः, व्यापकविरुद्धोपलब्धिः, कारणविरुद्धोपलब्धि श्थेति । तत्र कार्यविरुद्धोपलब्धिर्यथा-नात्र देहिनि दुःखकारणमस्ति सुखोपलम्भादिति । प्रतिषेध्यमिह दुःखकारणं तस्य कार्य दुःखं तेनं २५ विरुद्ध सुखं तच्च कुतोऽपि विशिष्टव्यापारव्यवहारादेः सिध्यदःख निवर्त
"Aho Shrut Gyanam"