________________
५०६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३. सू..
चित्तत्त्वज्ञानासम्भवाद्हणवचनम् । तत्त्वार्थानां श्रद्धानपूर्वकमवधारण ग्रहणमिष्टम् । अन्यथाऽस्य. ग्रहणाभासत्वात् । मिथ्यावरणस्य चात्र नास्तिता. साध्यते न पुनरनाचरणस्य । तत्त्वार्थोपदेशग्रहणात् । उत्पन्नतत्त्वज्ञानस्याप्यसंयतसम्यग्दृष्टेश्चारित्रासम्भवादनाचरणस्य प्रसिद्धेः । ५ न तु मिथ्यावरणमप्यम्य सम्भवति 1. तत्त्वज्ञानविरोधात् । तेन सह तस्यानवस्थानादिति । व्यापकविरुद्धकारणोपलब्धियथा--नास्त्यस्यात्मनि मिथ्याज्ञानं. तस्वार्थोपदेशग्रहणादिति । आत्मनि मिथ्याज्ञानस्य विशिष्टस्य व्यापकं मिथ्याज्ञानमात्रं तद्विरुद्धं तत्त्वज्ञानं तस्य कारण तत्त्वार्थो
पदेशग्रहणं यथोपवर्णितमिति । कारणव्यापकविरुद्धकारणोपलब्धियथा १० नास्त्यस्य मिथ्यावरणं तत्त्वार्थोपदेशग्रहणादिति । अत्र मिथ्यावरणस्य
कारणं मिथ्याज्ञानविशेषस्तस्य व्यापकं मिथ्याज्ञानमात्रं तद्विरुद्धं तत्त्वज्ञानं तस्य कारणं तत्त्वार्थोपदेशग्रहणामिति । व्यापककारणविरुद्धकारणोपलब्धिर्यथा-नास्त्यस्य मिथ्यावरणविशेषस्तत्त्वार्थोपदेशग्रहणादिति.।
मिथ्यावरणविशेषस्य हि व्यापकं मिथ्यावरणसामान्यं तस्य. कारणं १५ मिथ्याज्ञानं तद्विरुद्धं तत्त्वज्ञानं तस्य कारणं तत्त्वार्थोपदेशग्रहणामिति ।
कारणविरुद्धव्याप्योपलब्धिर्यथा, न सन्ति सर्वथैकान्तवादिनः प्रशम: संवेगनिर्वेदानुकम्पास्तिक्यानि वैपर्यासिकमिथ्यादर्शनविशेषादिति । प्रशमादीनां हि कारण सम्यग्दर्शनं तस्य विरुद्धं मिथ्यादर्शनसामान्य तेन व्याप्तं मिथ्यादर्शनं वैपर्यासिकं विशेषरूपमिति । व्यापकविरुद्ध. व्याप्योपलब्धिर्यथा, न सन्ति स्याद्वादिनी चैपर्यासिकादिमिथ्यादर्शन विशेषास्तत्त्वज्ञानविशेषादिति । वैपासिकादिमिथ्यादर्शनविशेषाणां हि व्यापकं मिथ्यादर्शनसामान्यं तद्विरुद्धं तत्त्वज्ञानसामान्यं तस्य न्याप्यस्तत्त्वज्ञानविशेष इति ।. कारणब्यापकविरुद्धच्याप्योपलब्धिर्यथा
न सन्त्यस्य प्रशमादीनि मिथ्याज्ञानविशेषादिति । प्रशमादीनां हि तर कारणं सद्दर्शनविशेषः, तस्य- व्यापकं दर्शनसामान्यं तद्विरुद्धं मिथ्या
ज्ञानसामान्यं तेन. व्याप्यो मिथ्याज्ञानविशेष: इति । व्यापककारण
"Aho Shrut Gyanam"