________________
परि. सू. 61 स्याद्वादरलाकरसहितः
न हि परभागाभावेन विरुद्धः परभागसद्भावस्तत्सहचरोऽर्वाम्भागः । 'लदेवमुदाहृता सप्तप्रकाराऽपि विरुद्धोपलब्धिः । सप्तप्रकारत्वं पुनरस्याः प्रतिषेध्येमार्थेन साक्षाद्विरुद्धमाश्रित्य सूत्रेऽभिहितम् । परम्परया विरीधाश्रयणेन त्वनेकप्रकारा विरुद्धोपलब्धिः सम्भवन्ती स्वयमभियुक्तैरवगस्तव्या। तद्यथा-कारणविरुद्धकार्योपलब्धिः,व्यापकविरुद्धकार्योपलब्धिः, ५ कारणच्यापकविरुद्धकारणोपलब्धिः, व्यापककारणविरुद्धकार्योपलब्धिः, कारणविरुद्धकारणोपलब्धिः,व्यापकविरुद्धकारणोपलब्धिः, कारणव्यापकविरुद्धकारणोपलब्धिः, व्यापककारणविरुद्ध कारणोपलब्धिः, कारणबिरुद्धव्याप्योपलब्धिः, व्यापकविरुद्धव्याप्योपलब्धिः, कारणव्यापक. विरुद्धच्याप्योपलब्धिः, व्यापककारणविरुद्धव्याप्योपलब्धिः, कारण- १० विरुद्धसहचरोपलब्धिः, व्यापकविरुद्धसहचरोपलब्धिः, कारणव्यापकविरुद्धसहचरोपलब्धिः,व्यापककारणविरुद्धसहचरोपलब्धिश्च, इति पार. म्पर्येण विरुद्धोपलब्धैः षोडश प्रकाराः । तत्र कारणविरुद्धकार्योपब्धियथा नास्त्यस्य हिमजनितरोमहर्षादिविशेषो धूमादिति । प्रतिध्यस्य हि रोमहर्षादिविशेषस्य कारणं हिमं तद्विरुद्धोऽग्निस्तत्कार्य धूम १५ इति । व्यापकविरुद्धकार्योपलब्धिर्यथा-नास्त्यत्र शीतसामान्यव्याप्तशीतस्पर्शविशेषो धूमादिति, शीतस्पर्शविशेषस्यः हि निषेध्यस्य व्यापक खीतसामान्यं तद्विरुद्धोऽमिस्तस्य कार्य धूम इति । कारणव्यापकविरुद्धकार्योपलब्धिर्यथा-नास्त्यत्र हिमत्वव्याप्तहिमविशेषजनितरोमहर्षादिविशेषो धूयादिति । रोमहर्षविशेषस्य हि निषेध्यस्य कारणं हिम- २० विशेषस्तस्य व्यापक हिमत्वं तद्विरुद्धोऽमिस्तत्कार्य धूम इति । व्यापककारणविरुद्धकार्योपलब्धिर्यथा-नास्त्यत्र शीतस्पर्शविशेषस्तथ्यापकशीतमर्शमात्रकारणहिमविरुद्धाग्निकार्यधूमादिति सुगममदः । कारणविरुद्धकारणोपलब्धिया-नास्त्यस्य मिथ्यावरणं तत्त्वार्थोपदेशग्रहणादिति । मिथ्यावरणस्य हि कारणं मिथ्याज्ञानं तद्विरुद्धं तत्त्वज्ञान २५ तस्थ कारणं तत्त्वार्थोपदेशग्रहणम् । तत्त्वार्थोपदेशश्रवणे सत्यपि कस्य
"Aho Shrut Gyanam"