________________
परि. ३ सू. ६७] स्याद्वादरलाकरसहितः प्रभञ्जनादिना विध्वस्तत्वेन भाविवर्षलक्षणकार्य प्रति व्यभिचारित्वं, न तेषां गमकत्वं वयमपि ब्रूमः । न चैकच व्यभिचारोपलम्भे सर्वत्र व्यभिचारः प्रेरयितुं परीक्षकाणामुचितः । सकलानुमानप्रलयप्रसङ्गात् । गोपालघुटिकापटितधूमस्य धूमध्वजं प्रति व्यभिचारोपलब्धौ धरणीधरकन्धराधिकरणस्थापि तस्य तम्प्रति व्यभिचारापत्तेः । यच हेतुना ५ यः समग्रेणेत्यत्र योग्यतानुमानं व्याख्यातम् । तदपि नोपपन्नम् । साध्यसाधनयोरेकान्तं तादात्म्याभ्युपगमे स्वभावानुमानस्य प्रागेव निरवकाशतया दर्शितत्वात् । लोकश्चाविकलकारणात्कार्यमेव कल्पयति न योग्यतामित्यलं कुदर्शिनः कुत्सितकुसुमविमर्दोद्गतदुरामोदास्वादनेन ॥६६॥
ननु पूर्वचरोत्तरचरयोर्हेतुत्वमसुन्दरम् | दासीरासभयोः पूर्वचरोत्तरचरत्वसम्भवेऽपि व्यभिचारदर्शनात् । यत्तु कृत्तिकादौ व्यभिचारादर्शनं न तत्र पूर्वचरोत्तरचरत्वं कारणं किं त्वेतदतिरिक्तः प्रतिबन्धविशेषभूतः स्वभावकार्यकारणेष्वेव प्रोक्तेष्वन्तर्भावो भविष्यत्यनयोः किं पृथगुपादानेनेत्याशङ्कय दासीरासभादौ पूर्वचरोत्तरचरत्वमेवास्मद्विवक्षितं नास्तीति १५ तदवगमनाय कृत्तिकादौ बौद्धसमतं तादात्म्यादिप्रतिबन्धविशेष निराकुर्वन्नाहपूर्वचरोत्तरचरयोर्न स्वभावकार्यकारणभावी तयोः
कालव्यवहितावनुपलम्भादिति ॥ ६७ ॥ - पूर्वचरोत्तरचरयोर्हेतुविशेषयोर्न स्वभावकार्यकारणभावौ तादात्म्य- २० तदुत्पत्ती सम्भवतः । कुत इत्याह—तयोः स्वभावकार्यकारणभावयोः । कालव्यवधानेऽनुपलम्भात् । अयमत्राभिप्रायः----साध्यसाधनयोस्तादास्ये सति स्वभावहेतौ तदुत्पत्तौ तु कार्यकारणे वाऽन्तर्भावो विभाव्येत। न च पूर्वचरोत्तरचरयोस्तदुभयसम्भवः । कालव्यवधाने तदनुपलब्धेः । तादाम्यं हि समसमयस्यैव कृतकत्वानित्यत्वादेः प्रतिपन्नम् । तदु- २५
"Aho Shrut Gyanam"