________________
प्रमाणनयतत्त्वालोकालङ्कारः परि..३ सू. ६६ येनाऽस्य प्रतिबन्धादिसम्भवाव्याभिचारिता ॥२॥ वैकल्यप्रतिबन्धाभ्यामनासाद्यस्वभावता ॥ विशिष्टतात्र विज्ञातुं शक्या छायादिभेदतः ॥ ३॥ तद्विलोपेऽखिलख्यातव्यवहारविलोपनम् ॥ तृप्त्यादिकार्यसिध्द्यर्थमाहारादिष्ववृत्तितः ॥ ४ ॥ ५ तत्परीक्षकलोकानां प्रसिद्धमनुमन्यताम् ॥ कारणं कार्यवद्धतुरविनाभावसङ्गतम् ॥ ५॥" छायादिभेदत इति विशिष्टस्निग्धत्वश्यामलत्वादिधर्मकलापभेदतस्तद्विलोपे । यत्तु पातनायामुक्तं कारणविशेषश्च न कश्चिद्विपश्चिताऽपि निश्चेतुं शक्य इति तदयुक्तन् ।
सुनिपुणेन प्रमात्रा कारणविशेषस्यावधारयितुं शक्यत्वात् । यथा खलु १० कार्यगतं विशेषमभ्यासादवधार्य कार्यात्कारणमनुमिन्वते निपुणास्तथा
कारणगतं ते एवाऽवसायकारणात्कार्यमपि । तदाह-"कारणानुपलम्भेऽपि यथा कार्ये विशिष्टता ॥ बोध्याऽभ्यासात्तथा कार्यानुपलम्भोऽपि कारणे ।। १ ।। प्रभातुस्त्वपराधोऽयं विशेष यो न पश्यति ॥ न
कारणस्य दोषोऽस्ति स्वकार्याव्यभिचारिणः ॥ २ ॥ अनभ्युपगमे १५ चैवमनुमानस्य जीवितम् ॥ न स्यामविशेषागामपि बोद्धुम
शक्तितः ॥ ३॥" एवं चाकाण्डाडम्बरेत्याद्यपि परस्य प्रलापमात्रम्। विशिष्टोन्नत्यादिधर्मकलापोपेतपयोदानामदूरकालमाविवृष्टिलक्षणकार्याव्यभिचारोपलम्भात् ।
तथा हे-~२०. गर्जन्तस्तारतारं तरलतरतडिताण्डबाडम्बरेण । - प्रोचण्डाः सान्द्रसद्य:प्रविकसदसतीश्यामलिग्नाऽनुलिप्ताः॥
चञ्चन्माहेन्द्रचापाश्चलदचलचयाकारशङ्कां दिशन्तः • प्रभ्रश्यन्तीह नैव कचन जलमुचो वृष्टिसृष्टिं विनाऽपि ॥५१५॥ , प्रयोगश्चात्र--अनन्तरोत्पादवृष्टयोऽमी जीमूताः सातिशयोन्नत्यादि२५ धर्मयोगित्वात्पूर्वोपलब्धैवंविधजलधरवदिति । येषां पुनरम्भोमुचा प्रौढ
'तत एवं ' इति प. पुस्तके पाठः ।
"Aho Shrut Gyanam"