________________
परि. ३ सू. ६६] स्याद्वादरत्नाकरसहितः
तदिदमखिलमपर्यालोचिताभिधानं सौगतस्येत्युपदर्शयन्नाह -
तमस्चिन्यामास्वाद्यमानादाम्रादिफलरसादेकसामयानुमित्या रूपाद्यनुमितिमभिमन्यमानैरभिमतमेव किमपि कारणं हेतुतया यत्र शक्तेरप्रतिस्खल
___ नमपरकारणसाकल्यं चेति ॥ ६६ ॥ ५ शक्तेरप्रतिस्खलनमिति कार्यजननसामर्थ्यस्याप्रतिबन्धः । अपरकारणसाकल्यमिति विवक्षितकारणादितरसहकारिभूतहेतुकदम्बकसामस्त्यम् । अयमत्राशयः---आस्वाद्यमानात्सहकारादिफलरसात्कार्यलिङ्गात्तज्जनिका सामग्र्यनुमीयते । ततस्तस्याः कारणलिङ्गरूपायाः सकाशाद्रूपलक्षणस्य कार्यस्यानुमानमुपजायते । प्राक्तनो हि रूपलक्षणः १० सजातीयं रूपलक्षणान्तरलक्षणं कार्य करोतीत्येवं रूपानुमानमिच्छद्विरिष्टमेव किंचित्कारणं लिङ्गतया । प्राक्तनस्य रूपलक्षणस्य सजातीयरूपलक्षणान्तराव्यभिचारात् । अन्यथा रससमानकालभाविनो रूपस्य प्रतिपत्त्यनुपपत्तेः । न ह्यनुकूलमात्रमन्त्यक्षणप्राप्तं वा कारण लिङ्गमस्माभिरिष्यते । येन मणिमन्त्रादिना सामर्थ्यप्रतिबन्धात्कारणा- १५ न्तरवैकल्येन वा कार्यव्यभिचारित्वं द्वितीयक्षणे कार्यप्रत्यक्षीकरणेनानुमानानर्थक्यं वा भवेत् । वर्षादिकार्याविनाभावितया निश्चितस्य विशिष्टोन्नत्यादिशालिनो मेघादेखि लिङ्गत्वेनाङ्गीकरणात् । यत्र हि सामर्थ्याप्रतिबन्धः कारणान्तरावैकल्यं च निश्चीयते तस्यैव लिजवं नान्यस्य । अन्यथा तृप्त्याद्यर्थं भोजनादावप्यप्रवृतेः सकलव्यव- २० हारोच्छेदः स्यात् । ततः कार्यवत्कारणमपि व्याप्तिसद्भावाद्धेतुरेव । तदुक्तम्----
... " समर्थ कारणं तेन नान्त्यक्षणगतं मतम् ॥ कार्यवत्कारणमपि हेतुरेवेति । MITEतद्वोधे येन वैयर्थ्यमनुमानस्य गद्यते ॥१॥
न वाऽनुकूलतामात्रं कारणस्य विशिष्टता ॥ २५
"Aho Shrut Gyanam"