________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ६४ .. तत्रेति निर्धारणे | तयोविरुद्धाविरुद्धोपलब्ध्योर्मध्ये येयमविरुद्धोपलब्धिः सा विधिसिद्धौ विधिज्ञप्तौ घोढा षट्प्रकारा भवति ॥ ६४ ॥ " प्रकारानेवाहसाध्येनाविरुद्धानां व्याप्यकार्यकारणपूर्वचरोत्तरचर
सहचराणामुपलब्धिरितीति ॥६५॥ ___साध्येन परिणतिमत्त्वादिना वक्ष्यमाणेन साध्यधर्मेण सहाविरुद्धानां विरोधमनागतानाम् । व्याप्यं च कार्य च कारणं च पूर्वचरं चोत्तरचरं च सहचरं च व्याप्यकार्यकारणपूर्वचरोत्तरचरसहचराणि प्रयत्नान
न्तरीयकत्वादीनि वक्ष्यमाणानि लिङ्गभूतानि वस्तूनि तेषामुपलब्धिः । १० इतिशब्दः प्रकारपरिसमात्यर्थः । ततश्च व्याप्याविरुद्धोपलब्धिः,
कार्याविरुद्धोपलब्धिः, कारणाविरुद्धोपलब्धिः, पूर्वचराविरुद्धोपलब्धिः, उत्तरचराविरुद्धोपलब्धिः, सहचराविरुद्धोपलब्धिश्चेत्यविरुद्धोपलब्धिविधिसिद्धौ षट्प्रकारा विज्ञेया । अत्राह ताथागतः-ननु कारणस्य : कार्याविनाभावाभावान्न साधनत्वं “ नाऽवश्यं कारणानि कार्यवन्ति १५ भवन्ति" इति वचनात् । तथा हि न कारणमात्रस्य हेतुत्वं युक्तम् । विनाशप्रतिबन्धादिना तस्य व्यभिचारात् । कारणविशेषश्च न कश्चिद्विपश्चिताऽपि निश्चेतुं शक्यः । अकाण्डाडम्बरं प्रचण्डानामपि तडित्वतामकृत्वैव वर्षमुपरमोपलम्भात् । यदि पुनरन्त्यदशावर्ति कारण
लिङ्गत्वेनाङ्गीक्रियते तदा व्याप्तिस्मरणावसर एव कार्य प्रत्यक्ष २० भवेदिति व्यर्थमनुमानं तत्र स्यात् । ननु सौगतैरपि कारणा
कार्यानुमानमभ्युपगतमेव " हेतुना यः समग्रेण कार्योत्पादोऽनुमीयते” इति वदद्धिरिति चेत् । तत्र उत्पद्यतेऽस्मादित्युत्पादो हि योग्यताऽभिधीयते सा चात्रानुमेया । अत एव तस्या वस्तुनः
सकाशादनन्यत्वात्स्वभावानुमानमिदमिष्यते " अर्थान्तरानपेक्षत्वात्स २५ स्वभावोऽनुवर्णितः" इति वचनादितिः ॥ ६५ ॥ . .....
"Aho Shrut Gyanam"