________________
५८५
परि ३ सू. ६४ स्याद्वादरत्नाकरसहितः स्वमतविरोधात् । लोकायतिकत्वहानिप्रसङ्गात् । तस्य व्यवहारदर्णयमतावलम्बित्वेन लोकव्यवहारार्ह कियत्कालस्थायिघटादिपदार्थकदम्बकवादित्वात् । इतरेतराभावतिरस्कारे तु नास्तिकस्याभिमतं पृथिव्यादि. तत्त्वं सर्वात्मकं सम्पद्येत । अनभिमतात्मनाऽपि भावात् । ततश्च पृथिव्यादीनां परस्परस्वरूपसाङ्कर्यापत्त्या भूतचतुष्टयव्यवस्थापनं दुरुपपादं ५ तस्य स्यात् । अत्यन्ताभावव्यतिक्रमे पुनः परामिमतचैतन्यतत्त्वात्मनाऽपि पृथिव्यादितत्वस्य कदाचित्सद्भावः स्यादिति महदनिष्टं चार्वाकस्यापद्यतेति । कपिलमतानुसारिणामपि प्रागभावानभ्युपगमे तावस्कुम्भादेरनादित्वप्रसङ्गाकुलालादिव्यापारानर्थक्यं स्यात् । न हि तब्यापारमन्तरेण जातुचित्कुम्भादिकमुपलभ्यते । न च कुम्भाद्यभि- १० व्यक्त्यर्थः कुम्भकारादिव्यापार इति वाच्यम् । अभिव्यक्तेरपि प्रागभावाभावे तयापारानर्थक्यस्य तादवस्थ्यात् । प्रतिक्षेप्स्यतेऽत्राभिव्यक्तिरने प्रबन्धेनेति कृतं विस्तरेण । एवं प्रध्वंसाभावाद्यनभ्युपगमे साङ्ख्यानां कार्यद्रव्यानन्तत्वापत्त्यादिकं प्राचीनमेव दूषणमुद्घोषणीयम् । एवं च
उपलब्ध्यादिको हेतुर्गोचरीकुरुतेऽत्र यम् । प्रतिषेधश्चतुर्धाऽसौ प्रसिद्धिपदमाययौ ॥ ५१४ ॥६२॥ अथोपलब्धेः प्रकारप्रकाशनायाह - उपलब्धेरपि वैविध्यमविरुद्धोपलब्धिर्विरुद्धोपलब्धि
श्चेति ॥ ६३ ॥ २० अविरुद्धोपलब्धिः साध्येनाविरुद्धस्योपलम्भः । विरुद्धोपलब्धिः साध्येन विरुद्धस्योपलम्भ इति ॥ ६३॥
अविरुद्धोपलब्धेर्विधौ साध्ये भेदानाह-- तत्राविरुद्धोपलब्धिर्विधेः सिद्धौ पोटेति ॥ ६४ ॥
"Aho Shrut Gyanam"