________________
1८
प्रमाणनयतत्त्वालोकालङ्कारः परि. ३ सू. ६२ यथा चेतनाचेतनयोरिति ॥ ६२॥ · न खलु चेतनमात्मतत्त्वमचेतनं पुद्गलाद्यात्मकतामगमद्भविष्यति गच्छति वा । चेतनत्वविरोधात् । नाप्यचेतनं पुद्गलादितत्त्वं चेतनजीवस्वरूपतायामयासीद्यास्यति याति वा । अचेतनत्वविरोधात् । तदित्थं ५ चेतनाचेतनयोः कालत्रयापेक्षिण्यास्तादात्म्यपरिणामनिवृत्तेः सम्भवात्सि
द्धोऽत्यन्ताभाव इति । नन्वेवमतिव्याप्तिरत्यन्ताभावलक्षणे दुष्परिहारा । घटपटयोरपि तादात्म्यपरिणामनिवृत्तिरूपयोरत्यन्ताभावत्वप्रसक्तेः । न खलु घटः पटात्मकतां कदाचिदास्कन्दति घटत्वविरोधात् । नापि पटो
घटात्मकतां स्वीकुरुते पटत्वविरोधादिति चेत् । तदेतत्तरलमतिवि१० लसितम्। कालत्रयापेक्षणीति विशेषणस्य तादात्म्यपरिणामनिवृत्तेः
सूत्रे करणात् । घटपटयोश्च यद्यपीतरेतराभावमाहात्म्यात्तादाम्यपरिणामनिवृत्तिरस्ति तथापि न सा सर्वकालम् । कदाचित्पटस्यापि घटत्वपरिणामसम्भवात् । तथापरिणामकारणसाकल्ये तदविरोधात् ।
पुद्गलपरिणामानियमदर्शनात् । न चैवं चेतनाचेतनयोः कदाचित्तादा१५ स्थपरिणामः, तत्त्वविरोधात् । तदेवमतिव्याप्तेरसम्भवात्सूक्तमिदं लक्षणं कालत्रयापेक्षणी तादाल्यपरिणामनिवृत्तिरत्यन्ताभाव इति ॥ तदमुना प्रबन्धेन प्रागभावप्रध्वंसाभावेतरेतराभावात्यन्ताभावानां
__प्रमाणतः प्रसिद्धस्वरूपत्वाद्यदेतच्चार्वाकेणोद्यतेप्रागभावाद्यभावचतुष्टयाप-,
किम का-" न चैकोऽप्यभावः क्षित्यादिविवर्त्तघटादिपिलसांख्यानां च व्यतिरेकेण प्रत्यक्षतः प्रतिभासते, केवलं
' गतानुगतिकतया लोकः पृथिव्यादिभूतचतुष्टयविषयमेव प्रागभावादिविकल्पमात्रवशात्प्रागभावादिव्यवहारं प्रवतयति" इति तदपहस्तितं भवति । प्रागभावापलापे हि कार्यद्रव्यं
घटादिकम्नादि स्यात् । प्रध्वंसाभावनिहवे तदनन्तं भवेत् । न चाना२५ धनन्तं घटादिकं कार्यद्रव्यं प्रागभावाद्यपह्नववादिनाऽभ्युपगन्तुं शक्यते ।
१. उच्यते' इति भ. पुस्तके पाठः ।
२०
खण्डनम् ।
"Aho Shrut Gyanam"