________________
परि. ३.सू. ६२] स्यावादरत्नाकरसहितः तेभ्यो व्यावृत्तस्य घटरूपताप्रतिपत्तिः प्रार्थ्यते तत्रापि किं कतिपयपटादिव्यक्तिभ्योऽसौ व्यावर्त्तते सकलपटादिव्यक्तिभ्यो वा । प्रथमपक्षे कुतश्चिदेवासौ व्यावर्त्तते सकलपटादिव्यक्तिभ्यः । निखिलपटादिव्यक्तिभ्योऽस्य व्यावृत्तिः पुनरसिद्धा । तासामानन्त्येन ग्रहणासम्भवात् । इतरेतराश्रयत्वं च । तथा हि यावत्पटादिभ्यो व्यावृत्तस्य ५ घटस्य घटरूपता न स्यान्न तावद्धटात्पटादयो व्यावर्तन्ते यावच्च घटायावृत्तानां पटादीनां पटादिरूपता न स्यान्न तावत्पटादिभ्यो घटो व्यावर्तत इति । अस्तु वा यथा कथञ्चित्पटादिभ्यो घटस्थ व्यावृत्तिर्घटान्तरात्तु कथमसौ व्यावर्त्तत इति सम्प्रधारणीयं विचक्षणैः । किं घटरूपतयाऽन्यथा वा । यदि घटरूपतया, तर्हि १० सकलघटव्यक्तिभ्यो व्यावर्त्तमानो घटो घटरूपतामादाय व्यावर्त्तत इत्यायातमघटत्वमन्यासां घटव्यक्तीनाम् । अथाघटरूपतया, तत्किमघटरूपता पटादिवटेऽप्यस्ति । तथा चेत्, तर्हि यो व्यावर्त्तते घटान्तरादघटत्वेन घटस्तस्याघटत्वं स्यात् । तच्च विप्रतिषिद्धम् । यद्यघटो घटः कथं, घटश्चेत्तीघटः कथमिति । तदित्थमर्थेभ्यः सर्वथा १५ पृथग्भूतस्य परकथितस्यावस्तुरूपस्येतरेतराभावस्य विचार्यमाणस्यानुपपतेरुपपन्नमिदमितरेतराभावलक्षणं स्वरूपान्तरात्स्वरूपव्यावृत्तिरितरेतराभाव इति ॥ ६ ॥
अथात्यन्ताभावलक्षणमाहकालत्रयापेक्षणी हि तादात्म्यपरिणामनिवृत्तिर- २०
त्यन्ताभाव इति ॥ ६१॥ अतीतानागतवर्तमानलक्षणं कालत्रयमपेक्षत इत्येवं शीला कालत्यापेक्षणी । तादात्म्यपरिणामनिवृत्तिरेकत्वपरिणतिव्यावृत्तिरत्यन्तामाव इत्यभिधीयते ॥ ६१ ॥
उदाहरणमाह--
"Aho Shrut Gyanam"