________________
५८१
प्रमाणनयतत्त्वालोकालङ्कारः [.परि. ३ सू. ६० किं चेतरेतराभावोऽप्यसाधारणधर्मेण व्यावृत्तस्याव्यावृत्तस्य वा भेदको भवेत् । यद्यव्यावृत्तस्य, किं नैकव्यक्तेर्भेदकोऽसौ । अथ व्यावृत्तस्य, तहि घटादिष्वपि स एवास्तु पटादिभ्यो भेदकः । किमितरेतराभाव
कल्पनया । अपि चानेन घटे पटः प्रतिषिध्यते पटत्वसामान्यमुभयं .५ वा । प्रथमपक्षे किं पटविशिष्टे घटे पटः प्रतिषिध्यते पटविविक्ते वा ।
न तावदाद्यः पक्षः । प्रत्यक्षविरोधात् । नापि द्वितीयः । तथा हि किमितरेतराभावादन्या घटस्य पटविविक्तता स एव वा विविक्तताशब्दाभिधेयः । भेदे तथैव घटे पटाभावव्यवहारासिद्धेः किमितरेतरा
भावेन । अथ स एव तच्छब्दाभिधेयः । तर्हि यस्मादभावात्पटविविक्ते १० घटे पटाभाकव्यवहारः सोऽन्यो विविक्तताशब्दाभिधेयश्चान्य इत्ये
कस्मिन्वस्तुनीतरेतराभावद्वयप्रसङ्गः । तन्न घटे पटप्रतिषेधो युक्तः । नापि पटत्वसामान्यप्रतिषेधः । तस्याऽप्येकत्वसम्बन्धाभावादेव प्रतिषेधानुपपत्तेः । नाप्युभयप्रतिषेधः । प्रागुक्ताशेषदोषानुषङ्गात् । अपि चेत
रेतराभावप्रतिपत्तिपूर्विका घटप्रतिपत्तिः, घटप्रतिपत्तिपूर्विका वेतरेतरा१५ भावप्रतिपत्तिः । आद्यपक्षेऽन्योन्याश्रयत्वम् । तथा हीतरेतराभावो घट
सम्बन्धित्वेनोपलभ्यमानो घटस्य विशेषणं न पदार्थान्तरसम्बन्धित्वेन । अन्यथा सर्व सर्वस्य विशेषणं स्यात् । घटसम्बन्धित्वप्रतिपत्तिश्च घटग्रहणे सत्युपपद्यते । सोऽपि व्यावृत्त एव पटादिभ्यः प्रतिपत्तव्यः ।
ततो यावत्पूर्व घटसम्बन्धित्वेन व्यावृत्तेरुपलम्भो न स्यान्न २० तावद्ध्यावृत्तिविशिष्टतया घटः प्रत्येतुं शक्यो यावच्च न पटादि
व्यावृत्तत्वेन प्रतिपन्नो न तावत्स्वसम्बन्धित्वेन व्यावृत्तिं विशेषयतीति । द्वितीयपक्षे त्वभावो विशेष्यो घटो विशेषणं तद्रहणं च पूर्वमन्वेषणीयम् ।"नागृहीतविशेषणा विशेष्ये बुद्धिः" इत्यभिधानात् । तत्रापि घटो
गृह्यमाणः पटादिभ्यो व्यावृत्तो गृह्येताव्यावृत्तो वा । न ५५ तावत्पटादिभ्योऽव्यावृत्तस्य घटस्य घटरूपता घटते । अन्यथा : पटादेरपि तथैव घटादिरूपताप्रसङ्गादभावकल्पनावैयर्थ्यम् । तथा
"Aho Shrut Gyanam"