________________
परि. ३ सू. ६०] स्याद्वादरलाकरसहितः विपत्तिः स प्रध्वंसः । न चेतरेतराभावस्याभावे भावे च कार्यस्योत्पत्ति विपत्तिर्वा । जलस्याभावेऽप्यनलस्यानुत्पत्तेः । क्वचिजलभावेऽपि चानलम्याविपत्तेः । ततः प्रागभावप्रध्वंसाभावयोविभिन्नलक्षणोपेतत्वान्नेतरेतराभावत्वं वक्तुं युक्तम् । नाप्यत्यन्ताभावस्य । तस्यापि कालत्रितयापेक्षस्यैवेतरेतराभावाद्विभिन्नलक्षणत्वेन वक्ष्यमाणत्वात् ॥५९॥ ५
उदाहरणमाहयथा स्तम्भस्वभावात्कुम्भस्वभावव्यावृत्तिरिति
॥६०॥ स्पष्टमदः । ननु येयं स्वरूपान्तरात्स्वरूपव्यावृत्तिरितरेतराभावत्वेन भवद्भिर. १०
___ भिधीयते सा भावेभ्यः किं भिन्ना भवेदमिन्ना स्येतरेतराभावस्य वात । कथञ्चिदविष्वग्भूतेति ब्रमः । परपरि
स्वण्डनम् । कल्पितायाः पदार्थेभ्यः सर्वथा विष्वग्भूताया व्यावृत्तेरवस्तुरूपायाः स्वग्नेऽप्यप्रतीयमानत्वात् । तथा हि स्वकारण- : कलापात्स्वस्वभावव्यवस्थितत्वेन व्यावृत्तमूर्तयो भावाः समुत्पन्ना नात्मानं परेण मिश्रयन्ति । तस्यापरत्वप्रसङ्गात् । न चान्यस्मादव्यावृत्तस्वरूपाणां भावानामभावांशो भिन्नः सम्भवति । भावे वा तस्यापि पररूपत्वात् , भावैस्ततोऽपि व्यावर्तितव्यमित्यपराभावपरिकल्पनयाऽनवस्थातो न कुतश्चिद्भावैावर्तितव्यमित्येकस्वभावं विश्वं भवेत् । परभावाभावाच्च व्यावर्त्तमानस्यार्थस्य पररूपताप्रसङ्गः । यदि चेतरेतराभा- २० ववशाद्धटः पटादिभ्यो व्यावर्तते तहस्तरेतराभावो भावादभावान्तराञ्च प्रागभावादेः किं स्वतो व्यावर्त्तताऽन्यतो वा । स्वतश्चेत्, तथैव घटोऽप्यन्येभ्यः किं न व्यावर्तितः। अन्यतश्चेत्, किमसाधारणधर्मादितरेतराभावान्तराद्वा । असाधारणधर्मादित्यभ्युपगमे स एव घटादिष्वपि युक्तः । इतरेतराभावान्तराञ्चेत्, तर्हि बहुत्वमितरेतराभावस्यानवस्थाकारि स्यात्। २५
"Aho Shrut Gyanam"