________________
प्रमाणनयतत्त्व लोकालङ्कारः
[ परि. ३ . ५८.
स्वकीयवृत्तं व्याख्यानयता सुनिपुणं निरूपयन्तोऽपि मांसचक्षुषो वयं तावन्नापरमत्र वस्तुजातमीक्षामहे यदभावश्रुत्या विषयीक्रियेत । तद्दर्शनाभावाच्च तत्कारणमपि किमवधारयामः । यश्व तत्कारणं कल्पितो दण्डस्तस्याप्यन्वयव्यतिरेकानुविधायिनी कपालपंक्तिरेव दृष्टा ५ नान्यत्किञ्चित् । वैधर्म्यदृष्टान्ततयेयमुपन्यस्ता पुनः । यथेत्रमध्यक्षानुपलम्भाभ्यामन्वयव्यतिरेकावनुविदधती दृश्यतया दण्डस्य कार्यम वस्थाप्यते तथा यदि नाशाख्यमपि वस्तु दृश्यं स्यादनात्मरूप विवेकेन तस्यापि तदा न तरस्विदण्डकार्यता वार्येत । न चैवम् । तस्मात्क - रूपनैवेयमिति । तत्र यद्येकान्ततुच्छ स्वभावध्वंसनिरसनम् । तदा तेनास्माकं सहायकमेवा वरितम् । अथ सर्वथा प्रध्वंसनिरसनायासस्तस्य स न साधीयान् । परिघादिव्यापारप्रसूतायाः कपालावलेरेव घटप्रध्वंसात्मकतया निर्विघ्नं प्रत्यक्षे प्रतीयमानत्वात् । ततः सुव्यवस्थितमिदं लक्षणं यदुत्पत्तौ कार्यस्यावश्यं विपत्तिः सोऽस्य प्रध्वंसाभाव इति ॥ ५८ ॥
१०
अथेतरेतराभावलक्षणमाह
५८०
१५
स्वरूपान्तरात्स्वरूपव्यावृत्चिरितरेतराभाव इति
॥ ५९ ॥
स्वस्वभावव्यवच्छेद
स्वरूपान्तरात्स्वभावान्तरात्स्वरूपव्यावृत्तिः इतरेतराभावोऽन्यापोहा परनामक उच्यते । स्वरूपान्तरादिति वचनान्न २० स्त्रस्वरूपाद्वयावृत्तिरितरेतराभावः । तस्यातत्स्वभावत्वप्रसङ्गात् । ननु तथापि कार्यद्रव्यात्पूर्वोत्तरपरिणामयोः प्रागभावप्रध्वंसाभावनाम्नोरे वेतरेतर भावताऽस्तु 1. स्वरूपान्तरात्स्वरूपव्यावृत्तेस्तयोः सद्भावात् । न पुनस्तदतिरिक्तः कश्चिदितरेतराभावोऽस्तीति चेत् । नैवम् । तयो - रितरेतराभावलक्षणतो विभिन्नलक्षणाक्रान्तत्वात् । यदभावे हि निय २५ मतः कार्यस्योत्पत्तिः स प्रागभावः । यद्भावे च कार्यस्य नियता
" Aho Shrut Gyanam"