________________
परिः ३. स. ५८:]
स्याद्वादरत्नाकरसहितः
अभावस्य भावान्तरस्वभावताप्रसङ्गात् । तं प्रत्येवास्योपादानकारणत्वप्रसिद्धः । संयोगसमवायावत्यत्र न सम्भवतः । तयोर्भावैकनिष्ठत्वेनाभ्युपगमात् । विशेषणविशेष्यभावः सम्बन्ध इत्यप्यसम्बद्धम् । सम्बन्धा. न्तरेण सम्बद्धयोरेव दण्डपुरुषादिवत्सम्भवात् । न च विनाशतद्वतोः सम्बन्धान्तरेण सम्बद्धत्वमस्तीत्यधुनैवाभिहितम् । अथ भावेष्वेवायं ५ नियमो यत्सम्बन्धान्तरवशादेव विशेषणविशेष्यभाव इति । नैतन्याथ्यम् । एवंविधावधारणनिबन्धनप्रमाणानुपदर्शनात्.। तन्न मुद्गरादिव्यापारेण कुम्भादेर्भिन्नो विनाशः क्रियते । अभिन्नविनाशकरणेः पुनः कुम्भादिरेव मुद्गरादिव्यापारेण क्रियत इति प्राप्तम् । तच्चानुपपन्नम् । तस्य स्वसामग्रीतः प्रागेवोत्पन्नत्वात् । यच्च कपाळपालेः सकाशा- १८ द्विनाशस्यार्थान्तरत्वं विभिन्न कारणप्रभवतया कथ्यते। तथा हि. घटवि. नाशो बलवत्पुरुषप्रेरितमुद्गराधभिघातादवयवक्रियोत्पत्तेरवयवविभागतोऽवयवसंयोगविनाशादेवोत्पद्यते । कपालपालिस्तुः स्वारम्भकावयवादिभ्य एव प्रादुर्भवतीति । तदपि प्रमाणपराङ्मुखम् .. ..अस्य विनाशोत्पादकारणप्रक्रियोद्धोषणस्यात्यन्तप्रातीतिकत्वात् । केवल- १५ मन्यप्रतारितेन त्वया परः प्रतार्यते । तस्मादन्धपरम्पराप्रवादपरित्यागेन बलवत्पुरुषप्रेरितमुद्रादिव्यापारात्कुम्भकारविकलकपालाकास्मद्रव्यस्यैवोत्पत्तिः स्वीकर्तव्या । अलं प्रतीत्यफ्लापेन । एवं च न सर्वथा भावविलक्षणः कश्चित्प्रध्वंसः । नापि सर्वथा प्रध्वंसस्याभाव इति सिद्धं भवति ।
२० ततश्च यदुक्तं ज्ञानश्रीमित्रेण-" : दृष्टस्तावदयं घटोऽत्र च
पतन्दृष्टस्तथा. मुद्गरो। दृष्टा कर्परसंहतिः दृष्टस्तावदित्यादिज्ञानश्री.
मित्रकारिकाया विचारः। परमता नशा न टापस ॥ . नाम
__इति अतिः क निहिता किं वाऽत्र तत्कारणं स्वाधीना परिघस्य केवलमियं दृष्टा कपालावलिः ॥ १॥” इति २५
१. तत् स्पष्टं ' इति प. भ. पुस्तकयोः पाठः।
"Aho Shrut Gyanam"