________________
५७८
प्रमाणनयतत्त्वालोकालङ्कारः
[. परि. ३ सू. ५०
.
ple
J
त्मकत्वात् । प्रागभावप्रध्वंसयोरुपादानोपादेय रूपतोपगमात् । प्रागभावोपमर्द्दनेन प्रध्वंसस्यात्मलाभात् । कथमभावयोरुपादानोपादेयभाव इंति चेत् । भावयोः कथम् । यद्भाव एव यस्यात्मलाभस्तत्तस्योपादानमितरदुपादेयमिति चेत् । तर्हि प्रागभावे कारणात्मनि पूर्वक्षणवर्तिनि सति प्रध्वंसस्य कार्यात्मनः स्वरूपला भोपपत्तेस्तयोरप्युपादानोपादेयभावोऽस्तु तुच्छयोरेवाभावयोरुपादानोपादेयभावविरोधात् । तथाव्यवहारनयादेशान्मृदादिस्वद्रव्यं घटी तरकालवर्त्ति घटप्रध्वंसः । स चानन्तः समवतिष्ठते । तेन घटात्पूर्वकालवर्ति घटाकारविशिष्टं च वर्त्तमानं मृदादिद्रव्यं घटप्रध्वंसो न भवति । घटोत्तरकालवर्तीति विशे१० षणात् । नन्वेवं घटोत्तरकालवर्त्ति सन्तानान्तरमृदादिद्रव्यमपि विवक्षितघटस्य प्रध्वंसः स्यादिति चेत् । न स्वग्रहणात् । प्रमाणार्पणाद्वव्यपर्यायात्मा प्रध्वंसः । तथा हि कपालपालिलक्षणपर्यायपरिकलितं मृद्रव्यं घटपर्यायाविष्टमृद्द्रव्यस्य प्रध्वंस इति प्रामाणिकी प्रतीतिः सर्वैरूप्यनुभूयमाना नापहोतुं शक्यते । तदित्थं नयार्पणात्प्रमाणार्पणाच १५ भावस्वभाव एव प्रध्वंसाभावोऽपि प्रसिद्धिसोधमधितिष्ठति । तुच्छस्वभावत्वे तु प्रध्वंसस्य मुद्रादिव्यापारवैयर्थ्यं स्यात् । मुद्गरादिव्यापारेण ह्येवंविधस्वभावोऽसौ कुम्भादेर्भिन्नः क्रियेताभिन्नो वा । तत्राध विकल्पो कुम्भादेस्तदवस्थत्वप्रसङ्गाद्विनष्ट इति प्रत्ययस्तत्र न स्यात् । विनाशसम्बन्धाद्विनष्ट इति प्रत्ययोत्पत्तौ तु विनाशतद्वतोः सम्बन्धः कश्चिद२० भिधानीयः । स विष्वग्भावः कार्यकारणभावः संयोगः समवायो विशेषणविशेष्यभावो वा तयोर्भवेत् । न तावदविष्वग्भावः । विनाशतद्वतोर्भेदाङ्गीकारात् । नापि कार्यकारणाभावः कुम्भादेर्विनाशं प्रत्यकारणत्वात् । मुद्गरादिनिमित्तकत्वाद्विनाशस्य । कुम्भादिमुद्गरादिलक्षणोभयनिमित्तकत्वादस्यायमदोष इति चेत् । तदप्ययुक्तम् । मुद्गरादि२५ वि विनाशोत्तरकालं कुम्भादेरप्युपलम्भप्रसक्तेः । कुम्भादेः स्वविनाशं प्रत्युपादानकारणत्वान्न तत्काले उपलम्भप्रसक्तिरित्यशोभनम् ।
" Aho Shrut Gyanam"