________________
परि ३.५७ ]
स्याद्वादरत्नाकरसहितः
प्रानासीत्कार्यमिति नास्तित्वप्रत्ययो विरुध्यते । तदभावस्य भावान्तररूपत्वात् । तत्र च नास्तित्वप्रत्ययाविरोधात् । तस्मात्पुष्कलमिदं प्रागभावस्य लक्षणं यन्निवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य प्रागभाव इति ॥ ५६ ॥
सम्प्रति प्रध्वंसाभाव लक्षयति-
यदुत्पत्तौ कार्यस्यावश्यं विपत्तिः सोऽस्य प्रध्वंसाभाव इति ॥ ५७ ॥
}
यदुत्पत्तौ यस्य जन्मनि । कार्यस्यावश्यं नियमेन विपत्तिर्विघटनम् । स पदार्थोऽस्य कार्यस्य सम्बन्धी प्रध्वंसाभाव इति कीर्त्यते ॥५७॥
उदाहरणमाह---
यथा कपालकदम्बकोत्पत्तौ नियमतो विपद्यमानस्य कलशस्य कपालकदम्बकमिति ॥ ५८ ॥
५७
" Aho Shrut Gyanam"
१०.
१५.
यथेति पूर्ववत् । कपाल कदम्बकोत्पत्तौ कर्परपरम्पराप्रादुभवे सति । नियमतोऽवश्यम्भावेन । विपद्यमानस्य कलशस्य घटस्य । कपालकदम्बकं प्रध्वंसाभाव इति । न चैवमन्धकारोत्पत्तौ विपद्यमानस्य रूपज्ञानस्यान्धकारः प्रध्वंसाभावः प्राप्नोतीत्यतिव्यापकमिदं लक्षणमिति मन्तव्यम् । सूत्रेऽवश्यं ग्रहणात् । न खल्वन्धकारोत्पतौ रूपज्ञानस्य नियमतो विपत्तिः सम्भवति । वृषदेशकादीनां समुज्जृम्भमाणेऽपि तमालपटलीश्यामले तमस्तम्बे रूपज्ञानस्योत्पत्तेः प्रतीयमानत्वात् । ननु चास्तु यथोक्तलक्षणलक्षितः प्रध्वंसा- २० भावस्तथापि कुतोऽस्य प्रसिद्धिरिति चेत् । नयप्रमाणादिति ब्रूमः । तत्रर्जुसूत्र नयार्पणा चावदुपादेयक्षणा एवोपादानस्य प्रध्वंसः । न चैवं तदुत्तरक्षणेषु प्रध्वंसस्याभावात्पुनरुज्जीवनं घटादेः प्रसज्यते । कार स्य कार्योपमर्दनात्मकत्वाभावात् । उपादानोपमर्दनस्यैव कार्योत्पत्त्या -