________________
प्रमाणनयतत्वालोकालङ्कारः
[ परि. ३.५६
निक्षणापेक्षा तु प्रागभावस्यानादित्वाभावेऽपि न दोषः । ऋजुसूत्रनयस्य तथेष्टत्वात् । तथा--- अस्मिन्पक्षे पूर्वपर्यायाः सर्वेऽप्यनादिसन्ततितया घटस्य प्रागभाव इति वचनेऽपि न प्रागनन्तरपर्याय निवृत्ताविव तत्पूर्वपर्यायनिवृत्तावपि घटस्योत्पत्तिप्रसङ्गः । येन तस्यादित्वे पूर्वपर्याय५ निवृत्तिसन्ततेरप्यनादित्वदोषापत्तिः । घटात्पूर्वक्षणानामशेषाणामपि तत्प्रागभावरूपाणामभावे घटोत्पत्त्यभ्युपगमात् । प्रागनन्तरक्षणानिवृत्तौ तदन्यतमक्षणनिवृत्ताविव सकलतत्प्रागभावनिवृत्त्य सिद्धेर्घटोत्पत्तिप्रसङ्गशसम्भवात् । व्यवहारनयार्पणात्तु मृदादिद्रव्यं घटादेः प्रागभावः । न चैवं द्रव्यस्याभावासम्भवात्प्रागभावाभावस्वभावता घटस्य दुर्घटा । १० कार्यरहितस्य पूर्वकालविशिष्टस्य मृदादिद्रव्यस्य घटादिप्रागभावरूपतोपगमात् । तस्य च कार्योत्पत्तौ विनाशसिद्धेः । कार्यरहिततया विनाशमन्तरेण कार्यसहिततयोत्पत्त्ययोगात् । कार्योत्पत्तेरेवोपादानात्मकप्रागभावक्षयस्वभावतया प्रतीयमानत्वात् । तथा प्रमाणार्पणाद्द्रव्यपर्यायात्मा प्रागभावः । स च स्यादनादिः स्यात्सादिः । अत्राह कश्चित् - द्रव्यरूपतया १५ तावदनादित्वे प्रागभावस्यानन्तत्वप्रसक्तेः सर्वदा कार्यानुत्पत्तिः स्यात् । पर्यायरूपतया च सादित्वे प्रागभावात्पूर्वमप्युत्पत्तिः पश्चादिव कथं कार्यस्य विनिवार्येतेति । नायं वैर्यवाग् । अनादेरप्यनन्ततैकान्तत्वासम्भवात् । द्रव्यजीवसंसारस्यानादित्वेऽपि सान्तत्वप्रसिद्धेः । अन्यथा कस्यचिन्मुक्त्ययोगात् । नापि सान्तस्य सादित्वैकान्तः । कस्यचि - २० त्संसारस्य सान्तत्वेऽप्यनादित्वप्रसिद्धेः । पर्यायरूपतया सादित्वं प्रागभावस्यैकव्यक्त्यपेक्षयैव । व्यक्तिप्रवाहापेक्षया पुनस्तस्य द्रव्यरूपतयेव पर्यायरूपतयाऽप्यनादित्वमेव । तस्मान्न सर्वदा कार्यस्यानुत्पत्तिः पूर्वमप्युत्पत्तिर्वा प्रसञ्जयितुं युक्ता । ततो भावस्वभाव एव प्रागभावः । स चैकानेकस्वभावो भावान्तरवदेवेति न तदेकत्वानेकत्वैकान्तपक्षभावी २५ दोषोऽवकाशं लभते । न च भावस्वभावे प्रागभावेऽभ्युपगम्यमाने
1
१ शोभनभाषी ।
५७६
"Aho Shrut Gyanam"