________________
परि. ३.सु. ५६] स्याद्वादरत्नाकरसहितः सकलशून्यता स्यात् । अथ विवक्षितकार्यप्रध्वंसेऽपि न सत्तायाः प्रध्वंसो नित्यत्वात् । अन्यथाऽर्थान्तरेषु सत्प्रत्ययोत्पत्तिर्न स्यात् । तदन्यत्रापि तुल्यम् । समुत्पन्नैककार्यविशेषणतया ह्यमावस्याभावेऽपि न सर्वथैवाभावः । भावान्तरेण्वभावप्रतीत्यभावप्रसङ्गात् । यथा चाभावस्य नित्यैकरूपत्वे कार्यस्योत्पत्तिर्न स्यात्तस्य तत्प्रतिबन्धकत्वात् । ५ तथा सत्ताया नित्यत्वे कार्यप्रध्वंसो न स्यात्तस्यास्तत्प्रतिबन्धकत्वात् । मसिद्धं हि प्रध्वंसात्प्राक्प्रध्वंसप्रतिबन्धकत्वं सत्तायाः । अन्यथा सर्वदा प्रध्वंसप्रसङ्गात्कार्यस्य स्थितिरेव न स्यात् । यदि पुनर्बल. वत्प्रध्वंसकारणोपनिपाते सति कार्यस्य सत्ता प्रध्वंसं न प्रतिबध्नाति । ततः पूर्वं बलवद्विनाशकारणोपनिपाताभावात्तं प्रतिबध्नात्येव । अतो १० न प्रागपि प्रध्वंसप्रसङ्ग इति मतम् । तदितरत्राप्यविशिष्टम् |अभावोइपि हि . बलवदुत्पादककारणोपनिपाते सति कार्यस्योत्पादं सन्नपि न प्रतिरुणद्धि । कार्योत्पादात्पूर्वं पुनर्बलवदुत्पादककारणाभावात्तं प्रतिरुणद्धयेव । अतो न प्रागपि कार्योत्पत्तिप्रसङ्गः । येन कार्यस्याः नादित्वासुपङ्गः स्यात् । किं च तुच्छस्वभावत्वे प्रागभावस्य सव्येत- १५ रंगोविषाणादीनां सहोत्पत्तिनियमवतामुपादानसङ्करप्रसङ्गः । प्रागभावाविशेषात् । यत्र यदा यस्य प्रागभावस्तत्र तदा तस्योत्पत्तिरित्यप्यसङ्ग तम् । तस्यैवानियमात् । स्वोपादानेतरनियमातन्नियमेऽप्यन्योन्याश्रयः । तन्न तुच्छस्वभावः कश्चित्प्रागभावो नाम समस्ति ।। अथ भावस्वभावस्याप्यस्य कुंतः प्रसिद्धिरिति चेत् । नयप्रमाणा- २०
दिति ब्रूमः । ऋजुसूत्रनयार्पणाद्धि प्रागभावभावस्वभावस्य प्रागभावसायप्रमाणात स्तावत्कार्यस्योपादानपरिणाम एव पूर्वोऽनन्त
रात्मा । न चैवं तस्यानादित्वविरोधः । प्रागभावतत्प्रागभावादेः प्रागभावसन्तानस्यानादित्वोपगमात् । न चात्र सन्तानिभ्यस्तत्त्वान्यत्वपक्षयोः सन्तानो दूषणार्हः । पूर्वपूर्वप्रागभावा- २५ स्मकभावलक्षणानामेवापरामृष्टभेदानां सन्तानत्वाभिप्रायात् । सन्ता.
"Aho Shrut Gyanam"