________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ३ सू. ५६ श्चेत्, किमुत्पन्नभावतन्त्रा उत्पत्स्यमानभावतन्त्रा वा । न तावदाद्यों विकल्पः । समुत्पन्नभावकाले तत्प्रागभावविनाशात् । न द्वितीयविकल्पोऽपि.श्रेयान् । प्रागभावकाले स्वयमंसतामुत्पत्स्यमानभावानां. तदाश्रयत्वायोगात् । अन्यथा प्रध्वंसामावस्यापि प्रध्वस्तपदार्थाश्रयत्वापत्तिः । न वाऽनुत्पन्नः प्रध्वस्तो वाऽर्थः कस्यचिदाश्रयो नाम । अतिप्रसङ्गात् । यदि पुनरेक एवः प्रागभावः पटादेरिति तथोत्पन्नपदार्थविशेषणतया तस्य विनाशेऽप्युत्पत्स्यमानार्थविशेषणल्वेनाविनाशान्नित्यत्वमपीति मतम् । तदा प्रागभावादिचतुष्टयकल्पनाऽपि माभूत् । सर्व
त्रैकस्याभावस्य विशेषणभेदात्तथा भेदव्यवहारोपपत्तेः । कार्यस्य . हि १० पूर्वेण कालेन विशिष्टोऽर्थः प्रागभावः । परेण विशिष्टः प्रध्वंसाभावः ।
नानार्थविशिष्टः स इतरेतराभावः । कालत्रयेऽप्यत्यन्तनिःस्वभावभावविशेषणोऽत्यन्ताभावः स्यात् । प्रत्ययभेदस्यापि तथोपपत्तेः । सत्तैकत्वेऽपि द्रव्यादिविशेषणभेदात्सत्प्रत्ययभेदवत् । यथैव हि. सत्प्रत्ययाविशेषा
द्विशेषलिङ्गाभावादेकत्वं सत्ताया इष्टं भवद्भिस्तथैवासत्प्रत्ययाविशेषा१५ द्विशेषलिङ्गाभावादसत्ताया अप्येकत्वमस्तु । अथ प्रागासीदित्यादि
प्रत्ययविशेषादसत्ता चतुर्भदेप्यते । तर्हि प्रागासीत्पश्चाद्भविष्यति सम्प्रत्यस्तीति कालभेदेन, पाटलिपुत्रेऽस्ति चित्रकूटेऽस्तीति देशभेदेन, घटोऽस्ति पटोऽस्तीति द्रव्यभेदेन, रूपमस्ति रसोऽस्तीति गुणभेदेन,
प्रसारणमस्ति गमनमस्तीति । कर्मभेदेन च, प्रत्ययविशेषसद्भावा: २० प्राक्सत्तादयः सत्ताभेदाः किं नेष्यन्ते । अथ प्रत्ययविशेषाचद्वि
शेषणान्येव भिद्यन्ते तस्य तन्निमित्तकत्वात्, न तु सत्ता । ततः सैकैवेति मतम् । तर्हि तत एवाभावभेदोऽपि माभूत् । सर्वथा विशेषाभावात् । अथाभिधीयते, अभावस्य सर्वथैकत्वे विवक्षितकार्योत्पत्तौ प्रागभावर
स्याभावे सर्वस्याभावानुषङ्गात्सर्वकार्यमनाद्यनन्तं सर्वात्मकं च स्यात् । २५ तदप्यभिधानमात्रम् । सत्तैकत्वेऽपि समानत्वात् । विवक्षितकार्य:
प्रवसे हि सत्ताया, अभाव : सर्वत्राभावप्रसङ्गस्तस्याः । तथा; च
"Aho Shrut Gyanam"