________________
परि० ३ सू. ५६ ]
स्याद्वादरत्नाकर सहितः
द्विषयत्वाददोष इति चेत् । मैवम् । अभावानवस्थाप्रसक्तेः । स्यान्मतं भावे भूतलादौ नास्ति कुम्मादिरिति प्रत्ययो मुख्योऽभावविषयः । प्रागभावादौ नास्ति प्रध्वंसादिरिति प्रत्ययस्तूपचरिताभावविषयः । ततो नाभावानवस्थेति । तद्व्यपेशलम् । परमार्थतः प्रागभावादीनां साङ्कर्य - प्रसङ्गात् । न ह्युपचरितेनाभावेन परस्परमभावानां भेदः सिद्धयति । ५ सर्वत्र मुख्याभावपरिकल्पनस्य वैयर्थ्यापत्तेः । यदप्युच्यते न भावस्वभावः प्रागभावादिः सर्वदा भावविशेषणत्वादिति । तदपि न सम्यगनुमानम् । हेतोः पक्षाव्यापकत्वात् । न प्रागभावः प्रध्वंसादावित्यादेरभावविशेषणस्याप्यभावस्य प्रसिद्धेः । गुणादिना व्यभिचाराच्च । तस्य सर्वदा भावस्य विशेषणत्वेऽपि भावस्वभावत्वात् । रूपं पश्यामीत्यादि - १० व्यवहारे गुणस्य स्वतन्त्रस्यापि प्रतीतेर्न सर्वदा भावविशेषणत्वमस्येति चेत् । तर्ह्यभावस्तत्त्वमित्यभावस्यापि स्वातन्त्र्यप्रतीते: सर्वदा भावविशेषणत्वं मासिधत् । सामर्थ्यादभावविशेष्यस्य द्रव्यादेः सम्प्रत्ययात्सदा भावविशेषणमेवाभाव इति चेत् । तथैव गुणादिरपि सततं भावविशेषणमस्तु । तद्विशेष्यस्य द्रव्यस्य सामर्थ्याद्गम्यमानत्वात् । अपि च प्रागभावः १५ सादिः सान्तः परिकल्प्यते सादिरनन्तो वाऽनादिरनन्तोऽनादिः सान्तो वेति चत्वारः पक्षाः । प्रथमपक्षे प्रागभावात्पूर्वं घटस्योपलब्धिप्रसङ्गः । तद्विरोधिनः प्रागभावस्याभावात् । द्वितीयेऽपि तदुत्पत्तेः पूर्वं घटस्योपलब्धिप्रसङ्गस्तत एव उत्पन्ने तु प्रागभावे सर्वदा घटस्यानुपलब्धिः स्यात् । तस्यानन्तत्वात् । तृतीये तु सदा घटस्यानुपलब्धिप्रसक्तिः स्पष्टैव । २० चतुर्थे पुनर्घटोत्पत्तौ प्रागभावस्याभावे घटोपलब्धिवदशेषकार्योपलब्धिः स्यात् । सर्वकार्याणामुत्पत्स्यमानानां प्रागभावस्यैकत्वात् । ननु यावन्ति कार्याणि तावन्तस्तत्प्रागभावाः । तत्रैकस्य प्रागभावस्य विनाशे - Sपि शेषोत्पत्स्यमानप्रागभावानाम विनाशान्न घटोपलब्धौ सर्वकार्योपलब्धिरिति चेत् । तर्ह्यनन्ताः प्रागभावास्ते किं स्वतन्त्रा भावतन्त्रा २५ बा । स्वतन्त्राश्चेत्, कथं न भावस्वभावाः । कालादिवत् । भावतन्त्रा
" Aho Shrut Gyanam"
५७३