________________
५७२
प्रमाणनयतत्त्वालोकालङ्कारः
परि. ३ सू. ५५
यन्निवृत्तावेव यस्य प्रध्वंस एव सति कार्यस्य समुत्पत्तिः स पदार्थोऽस्य कार्यस्य सम्बन्धी, प्रागभाव इत्यभिधीयते ॥ ५५ ॥
अत्रोदाहरणमाह-- यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य
इति ॥५६॥ यथेत्युदाहरणोपक्षेपार्थः । मृत्पिण्डस्य मूद्दव्यपर्यायविशेषस्य निवृत्तिः प्रध्वंसो मृत्पिण्डनिवृत्तिस्तस्यां सत्यामेव समुत्पद्यमानस्य घटस्य मृत्पिण्डः प्रागभाव इत्युच्यते । नन्वतिव्याप्तिदोषदुष्टमिदं प्रागभाव
लक्षणम् । तथा हि यस्य निवृत्तौ सत्यां कार्यस्योत्पत्तिः स पदार्थ१० स्तस्य यदि प्रागभावतयाऽभिप्रेयते तदा कचिदन्धकारस्य निवृत्तौ सत्यां
रूपज्ञानस्योत्पत्तेरन्धकारस्तस्य प्रागभावः प्राप्नोति इति चेत् । मैवं वादीः ! यन्निवृत्ताववेत्यवधारणस्य सूत्रे करणात् । न खल्वन्धकारनिवृत्तावेव रूपज्ञानस्योत्पत्तिरिति नियमः समस्ति । केषाश्चिदन्धकारेऽपि
रूपज्ञानस्योत्पत्तेः प्रतीयमानत्वात् । ततो नास्य प्रागभावलक्षणस्याति१५ व्याप्तिदोषदुष्टतेति ।
अत्राहुवैशेषिकाः । यस्य भावस्य निवृत्तौ यत्कार्यस्य समुत्पत्तियस्य भावस्य निवृत्तौ यत्का- स्तस्यैव तत्पागभावत्वाभिधानमशोभनम् । यस्य समुत्पत्तिस्तस्यैव त- सर्वथा भावविलक्षणत्वेन सर्वस्याभावस्य षट्प्रागभावत्वाभिधानमसंगत
vieAMI पदार्थशेषत्वादिति । न ते यथार्थदर्शिनः । मतमुपदश्य तरखण्डनम्। सर्वथा भावविलक्षणस्याभावस्य ग्राहकप्रमाणाभावात् । ननु स्वोत्पत्तेः प्रागासीद्धट इति प्रत्ययोऽसद्विषयः, सत्प्रत्ययविलक्षणत्वात् । यस्तु सद्विषयः स न सत्प्रत्ययविलक्षणः । तस्मादसद्विषय इत्यनुमानं प्रागभावस्य ग्राहकमस्तीति चेत् । न प्रागभावादौ नास्ति प्रध्वंसाभावादिरिति प्रत्ययेन व्यभिचारात् । तस्याप्यस
२०
१ वैः द.अ. ९ मा. १सू. १।
"Aho Shrut Gyanam"