________________
प्रमाणनयतत्त्वालोकालङ्कारः [ परि. २ सू. ५ तत्र तयोः सांव्यवहारिकपारमार्थिकप्रत्यक्षयोर्मध्ये यदाचं सांव्यवहारिकं तद्विविधम् । द्वैविध्यमेव दर्शयति इन्द्रियनिबन्धनमनिन्द्रियनिबन्धनं चेति । इन्द्रियाणि चक्षुरादीनि तानि मानसबलाधानसहितानि प्राधान्येन निबन्धनमस्येतीन्द्रियनिबन्धनमेकम् । अनिन्द्रियं मनस्तन्निबन्धनं द्वितीयम् । च: समुच्चये । तत्रेन्द्रियं द्रव्यभावेन्द्रियभेदावेधा । तत्रापि द्रव्येन्द्रियं गोलकादि परिणाम विशेषपरिणतरूपरसगन्धस्पर्शवत् पुद्गलात्मकं विज्ञेयम् । तविधा निर्वृत्युपकरणभेदात् । " निर्वृत्त्युपकरणे द्रव्येन्द्रियम्" इति वचनात् । तत्र निर्वृत्तिरा
कारः । सा च बाह्याऽभ्यन्तरा च । तत्र बाह्यानेकप्रकारा । अभ्यन्तरा १० पुनः क्रमेण श्रोत्रादीनां कदम्बधान्यमसूरातिमुक्तकपुष्पचन्द्रिकाक्षुरप्र
नानाकारसंस्थाना । उपकरणेन्द्रियं विषयग्रहणे समर्थम् । छेद्यच्छेदने खड्गस्येव धारा । यस्मिन्नुपहते निर्वृत्तिसद्भावेऽपि विषयं न गृह्णातीति । भावेन्द्रियमपि " लब्ध्युपयोगी भावेन्द्रियम्" इति वचना
विविधम् । तत्रावरणक्षयोपशमप्राप्तिरूपार्थग्रहणशक्तिर्लब्धिः । तद१५ भावे सतोऽप्यर्थस्याप्रकाशनात् । अन्यथाऽतिप्रसक्तेः । उपयोगस्तु रूपा
दिग्रहणव्यापारः । विषयान्तराशक्ते चेतसि सन्निहितस्यापि विषयस्याग्रहणात्सिद्धः । एवं मनोऽपि द्वेधा द्रष्टव्यमिति । अत्राह योगः । ननु द्रव्येन्द्रियस्याविशेषतः पुद्गलात्मकत्यमयुक्तम् ।
__अत्यन्तभिन्नजातीयेभ्यः पृथिव्यादिभ्योऽत्यन्तभिअविशेषण द्रव्येन्द्रियस्य पु-जातीयानां प्राणादीनामुत्पत्तिसिद्धेः । तथा च २० गलात्मत्वमसहमानस्य नै-नजातीयाना यायिकस्य मतमुपपादनपू-न्यायभाष्यम् । 'पृथिव्यप्तेजोवायुम्यो घ्राण
। रसनचक्षुःस्पर्शनेन्द्रियभावः' इति । भवन्ति चानुमानान्यत्र ! पार्थिवं घ्राणं रूपादिषु सन्निहितेषु गन्धस्यैवाभिव्यञ्जकत्वात् गोघृतवत् । तथा तदभिव्यञ्जकं च घ्राणं तस्मात्पार्थिवमिति।
वक खण्डयते ।
१ तत्त्वार्थसू. १११७. २ तत्त्वार्थसू. ११८. ३ ' सिद्धिः' इति प. भ. पुस्तकयोः पाठः । ४ गो. सू. ३॥ १. ५ कुंकुमाद्यभिव्यञ्जकगोघृतवत् ।
"Aho Shrut Gyanam"