________________
परि. २ सू. ५] स्याद्वादरत्नाकरसहितः तथा हि श्रोत्रादिवृत्तिः प्रत्यक्षमिति सांख्याः प्रत्यक्षलक्षणामचक्षते ।
एतच्च प्रमाणसामान्यलक्षणसूत्रे ज्ञानग्रणेन सांख्याद्युक्तप्रत्यक्षलक्षणस्य खण्डन । तदुक्तबुद्धिवृत्त्याख्यप्रमाणसामान्यलक्षणान्तर्गतं
यथाऽपास्तं तथा प्रागेव निरचायि । प्रत्यक्षं कल्पनापोढमिति प्रत्यक्षलक्षणं ताथागताः कथयन्ति । एतदपि तत्रैव ५ व्यवसायिग्रहणेन यथा पराकृतं तथा व्यावर्णितं प्रबन्धेनेति ।
स्पष्टं प्रत्यक्षमित्येतत्प्रत्यक्षस्यात्र लक्षणम् ।। विक्षिप्तप्रतिपक्ष तल्लक्षयन्तु विचक्षणाः ॥ ३३० ॥ ३॥ अथ प्रत्यक्षस्य भेदप्रकाशनायाह-- तत् द्विप्रकारं सांव्यवहारिकं पारमार्थिकं च ॥४॥ १०
तत्स्पष्टत्वलक्षणलक्षितं प्रत्यक्षं द्विप्रकारम् । प्रकारावेवोल्लिखन्नाह सांव्यवहारिकं पारमार्थिकं चेति । समीचीनो बाधारहितो व्यवहारः प्रवृत्तिनिवृत्तिलक्षणस्तत्र भवं संप्रयोजनमस्येति वा सांव्यवहारिकम् । बाह्येन्द्रियादिसामग्रीसापेक्षत्वादपारमार्थिकमस्मदादिप्रत्यक्षमित्यर्थः । तद्धीन्द्रियानिन्द्रियव्यवहितात्मव्यापारसम्पाद्यत्वात्परमार्थतः परोक्षमेव । १५ धूमामिज्ञानवत् व्यवधानाविशेषादिति । तथा पारमार्थिकं मुख्यम् । आत्मसन्निधिमात्रापेक्षितत्वाद्वक्ष्यमाणमवध्यादिप्रत्यक्षमित्यर्थः । तत्खल्यात्मनः साक्षाध्यापारमेवापेक्षते । न पुनः सांव्यवहारिकप्रत्यक्षमियेन्द्रियादिव्यापारमपीति भावः ॥ ४ ॥
अथ सांव्यवहारिकस्य भेदप्रदर्शनायाह॥ तत्राद्यं द्विविधमिन्द्रियनिबन्धनमनिन्द्रियनिव
न्धनं च ॥५॥
१ 'तत्र कल्पनापोढमभ्रान्तं प्रत्यक्षम्' इति न्यायबिन्दुः प.१ सू.४. २ 'भेद' इति भ. पुस्तके नास्ति ।
"Aho Shrut Gyanam"