________________
प्रमाणमयतत्त्वालोकालङ्कार
[परि. २ स. ३
विद्यमानेन केनाप्यर्थेन सम्प्रयोगस्य सम्भवात् । न खलु संशयविपर्ययावपि सर्वथार्थनिरपेक्षजन्मानौ सम्भवतः । निरालम्बनस्य कस्यचित्संवेदनस्यासम्भवादिति ख्यातिविचारावसरे व्यवस्थापितमेव ।
अथ सति सम्प्रयोग इति सत्सप्तमीपक्ष एव न त्यज्यते । संशय. ५ विपर्ययव्यवच्छेदी च सम्प्रयोग इत्यत्र सम्यगर्थः समुपसर्गो वर्ण्यते ।
तदुक्तम् " सम्यगर्थे च संशब्दो दुःप्रयोगनिवारणः॥ दुष्टत्वाच्छुक्तिकायोगो वार्यते रजतेक्षणात् ॥ १॥” इति नन्वेवमपि प्रयोगसम्यक्त्वस्यातीन्द्रियत्वेन प्रत्यक्षानवसेयत्वात्कार्यतो निश्चितिर्वाच्या । कार्य
च ज्ञानं तच्च नाविशेषितमेव प्रयोगसम्यक्त्वमवबोधयति । न च ज्ञान१० विशेषणपरं किञ्चिदपि पदमत्रावलोकयामः । लोकव्यवहारत एव
कार्यविशेषनिश्चयात् प्रयोगसम्यक्त्वमवभोत्स्यामहे इति चेत् । तर्हि लोकव्यवहारत एव प्रत्यक्षस्यापि सिद्धत्वात् किं तल्लक्षणव्याख्यानेन । यदपि शबरस्वामिना व्याख्यायते 'यद्यभिचरति न तत्प्रत्यक्षं यत्प्रत्यक्ष
न तव्यभिचारि तत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म सत्प्रत्यक्ष १५ यद्विपयं ज्ञानं तेन सम्प्रयोगे इन्द्रियाणां पुरुषस्य बुद्धिजन्म
तत्प्रत्यक्षं यदन्यविषयं ज्ञानमन्यसम्प्रयोगे भवति न तत्प्रत्यक्षम् । इत्येवं तत्सतोर्व्यत्ययेन लक्षणमनपवादमवकल्प्यते इति । तदपि नोपपतिमियति । संशयज्ञानेन व्यभिचारानतिवृत्तेः । तत्र हि यद्विषयं ज्ञानं
तेन सम्प्रयोग इन्द्रियाणामस्त्येव । ननुभयविषयं संशयज्ञानं न २० चोभाभ्यां सम्प्रयुक्तमिन्द्रियमिति चेत् । तदप्यसत् । न हि धवखदिरा
विव द्वावपि पदार्थो सिद्धतया संशयज्ञाने प्रतिभासते । किन्तु स्थाणुर्वा स्यात्पुरुषो वेति अनिर्धारितौ तौ । नूनं च तयोरन्यतरेणेन्द्रियं संयुक्तमेवेति उभयावमर्शितत्वान्च संशयस्य येन सम्प्रयुक्तमिन्द्रियं तद्विषयमपि तज्ज्ञानं भक्त्येवेति नातिव्याप्तिः परिहृता भवतीति । इत्थं न युक्तिमनुगच्छति जैमिनी
यमध्यक्षलक्षणमिदं परितय॑मानम् ॥ सांख्यादिकल्पितमदः पुनरक्षवृत्ति
___ मुख्यं तिरस्कृतमिहादित एव युक्त्या ।। ३२९ ॥ १ मी. श्लो. का. प्र. प. सू. ४ श्लो. ३८॥३९.
"Aho Shrut Gyanam"