________________
परि. २ सु. ३]
स्याद्वाद्ररत्नाकरसहितः
चेत्, गन्धादावपि तत एव तदसिद्धेः कुतस्तनिश्चयः । तस्य क्षित्यादिद्रव्यतन्त्रत्वेन प्रतीतेरस्वतन्त्रत्वसिद्धिरिति चेत्, शब्दस्यापि वक्रादिद्रव्यतन्त्रस्योपलब्धेरस्वतन्त्रत्वसिद्धिरस्तु । वक्रादेः शब्दाभिव्यञ्जकध्वनिप्वेव कारणत्वान्न शब्दस्य तत्परतन्त्रत्वोपलब्धिरिति चेत्, तर्हि क्षित्यादिद्रव्यस्यापि गन्धादिव्यञ्जकवायुविशेषेष्वेव कारणत्वान्न गन्धादेस्तत्परतन्त्रत्वोपपत्तिः । शब्दस्य वक्तुरन्यत्रोपलब्धेर्न परतन्त्रत्वं सर्वदेति चेत्, गन्धाश्रयद्रव्यस्य किं न स्यात् । सूक्ष्मत्वादिति चेत्, तत एव शब्दाश्रयद्रव्यस्यापि न चक्षुषोपलब्धिरिति सर्वं समं पश्यामः ।
ततो यदि गन्धादीनां शश्वदस्वतन्त्रत्वान्महत्त्वाद्युपेतत्वाभावान्मुख्यतो न द्रव्यत्वं तदा शब्दस्यापि न तत् । ननु च शब्दस्याद्रव्यत्वे - १० ऽप्य सर्वगतद्रव्याश्रयत्वे कथं सकृत्सर्वत्रोपलम्भः । यथा गन्धादेः समानपरिणामभृतां पुद्गलानां स्वकारणवशात्समं ततो विसर्पणात् । तदेवं प्रतिनिधिभूतो गन्ध एव ध्वनौ पराकरिष्यति तीर्थनि कुरम्बोदीरितदुरारेकानिकरमिति किमस्माकमायासेन |
३४१
१५
वक्तृवककुहराद्विनिर्गतः श्रूयते श्रुतिमुपागतस्ततः ॥ गन्धवध्वनिरतश्च मुच्यतां श्रोत्रिय स्वमतसाधनत्वरा ॥ ३२७ ॥ नैयायिकगृहाधीतं तदध्यक्षस्य लक्षणम् ॥ अव्याप्तिदोषदुष्टत्वादवस्थितमलक्षणम् ॥ ३२८ ॥
यदपि "सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम् " सत्संप्रयोगे पुरुषस्ये- इति मीमांसकैः प्रत्यक्षलक्षणमाख्यायते । तदपि २० त्यादिमीमांसकोक्त- तेषाममीमांसकत्वमेव सूचयति । अतिव्याप्तिदोषानतिक्रमात् । तथा हीन्द्रियाणां सम्प्रयोगे
सति पुरुषस्य जायमाना बुद्धिः प्रत्यक्षमिति सूत्रार्थः । तत्र चातिव्याप्तिः । संशयविपर्ययवुद्धयोरपीन्द्रियसम्प्रयोगजन्यत्वेन प्रत्यक्षत्वप्रसक्तेः । अथ सत्सम्प्रयोग इति सता विद्यमानेन सम्प्रयोग इत्येवं व्याख्यायते । तथापि कथं संशयविपर्यययोर्युदासः । तत्रापि
प्रत्यक्षलक्षणस्य निरास: ।
"Aho Shrut Gyanam"
२५