SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सु. ३ कथं भूतः स्कन्धाः श्रावणस्वभावाः कुड्यादिना मूर्तिमता न _प्रतिहन्यन्त इति चेत् । तवापि वायवीया ध्वनयः मर्ताः श्रावणस्वभावाः स्कन्धाः कुडयादिना मतिमताशब्दाभिव्यञ्जकाः कथं तेन न प्रतिहन्यन्त कथं प्रतिहन्यन्त इति भाट-इति समानम् । अथ तत्प्रतिघाते तत्र शब्द___ म्याभिव्यक्तेरयोगादनभिव्यक्तस्य च श्रवणासम्भवादप्रतिघातस्तेषां कुड्यादिना सिद्ध इति चेत् । तत एव शब्दात्मनां पुद्गलानामप्रतिघातोऽस्तु, दृष्टहानिपरिहारात् । दृष्टो हि गन्धात्मकपुद्गलानामप्रतिघातस्तद्वच्छब्दानां न विरुध्यते । यदि पुनरमूर्तस्य सर्वगतस्य च शब्दस्य परिकल्पनात्तयञ्जकानामेवाप्रतिघाताच्छ्रवण१० मित्यभिनिवेशः । तदा गन्धस्यामूर्तस्य सर्वगतस्य कस्तूरिकाद्रव्य विशेषसंयोगजनिता वायवो व्यञ्जका मूर्तद्रव्यान्तरेणाप्रतिहतास्तदाप्राणहे तव इति कल्पनानुषज्यमाना कथं निवारणीया । गन्धस्यैवं पृथिवीगुणत्वविरोध इति चेत् । शब्दस्यापि पुद्गलगुणत्वविरोधस्तथास्तु । परैः शब्दस्य द्रव्यान्तरत्वेनाभ्युपगमाददोष इति चेत् । तथा गन्धो १५ द्रव्यान्तरमभ्युपगम्यताम् । प्रमाणबलायातस्य परिहमिशक्तेः । स्पर्शा दीनामप्येवं द्रव्यत्वप्रसङ्ग इति चेत् । तान्यपि द्रव्यान्तराणि सन्तु । निर्गुणत्वात्तेषामद्रव्यत्वमिति चेत् । तत एव शब्दम्य द्रव्यत्वं माभूत् । महत्त्वादिगुणाश्रयत्वाच्छब्दो द्रव्यमिति चेत् । तत एव गन्धस्पर्शा दीनां द्रव्यत्वमस्तु । तेषूपचरिता महत्त्वादय इति चेत् , शब्देऽप्युप२० चरिताः सन्तु । कुतः शब्दे तदुपचार इति चेत् , गन्धादिषु कुतः । स्वाश्रयमहत्त्वादिसम्भवादिति चेत् , तत एव शब्देऽप्यस्तु । मुख्यमहत्त्वादेरसम्भवः शब्दे किमवगतः, त्वयापि गन्धादौ स किमु निश्चितः। गन्धादयो न मुख्यमहत्त्वाद्युपेताः शश्वदस्वतन्त्रत्वादभाववदित्यतोऽ नुमानादसम्भवो निश्चित एवेति चेत्, तत एव शब्देऽपि स निश्चीय२५ ताम् । शब्दे तदसिद्धेर्न तन्निश्चयः । सर्वदा तस्य स्वतन्त्रस्योपलव्धेरिति 'गन्धोऽपि ' इति भ. पुस्तके पाठः । "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy