________________
काथ पचनस्य तो याचनाकमसानिदेशाधामपि परमाणून
परि. २ सू. ३] स्याद्वादरत्नाकरसहितः एकश्रोत्रप्रवृष्टो वासगृह्यतां परैः कथम् ॥ ५॥ निष्कम्य कर्णादेकस्मात्प्रवेशः श्रवणान्तरे । यदीष्येत कथं तस्य युगपदहुभिः श्रुतिः ॥ ६॥ श्रोतृसंख्यानुसारेण न नानावर्णसम्भवः ।। वक्तुस्तुल्यप्रयत्लत्वाच्छ्रोतृभेदतदैक्ययोः ।। ७ ॥” इति । - तदपि नोपपन्नम् । नासिकाशुषिरनिविशमानसूक्ष्मगन्धाधारद्रव्येऽप्यस्य सकलस्य समानत्वात् । किञ्च कुतस्ते सूक्ष्मवर्णावयवेष्वरुचिः । न तावद्वर्णानां त्वयापि नित्यत्वमुपेतम् । गुणत्वं तु तेषां प्रतिघेत्स्यते । यथा कार्यानुयपत्त्या सूक्ष्माणामपि परमाणूनां कल्पना तथा वर्णावयवानामपि । रचनाक्रमसन्निवेशावपि तादृशावस्य यादृग्भ्यां श्रूयते। यथा पवनस्य तौ यादृशाभ्यां स्पृश्यते । तथा “ यदि स्यानिश्चितं १० कार्य कृतं कारणचिन्तया ।। अथाप्यनिश्चितं कार्य कृतं कारणचिन्तया ॥१॥" निबद्धा चामीषां लघूनामपि पुरुष एव । यथोछासावयवानाम् । विक्षिप्यते चासौ मारुतैः । अत एवं प्रतियाते निकटस्थैरपि न श्रूयते । भज्यते चासौ वृक्षाद्यभिहतः । अत एव घनवनव्यवहितैरन्यवर्णसाधारणं वर्णशकलमेव श्रूयते । यतः संशयो १५ जायते कोऽनेनोक्तो वर्ण इति । प्रयाणकावधिरप्यस्य यः कश्चित्क्षिप्तस्य शरादेः । कोऽन्योवधिस्तवापि शब्दोत्पादसन्तानविरमणस्य । युगपहहुप्रमातृश्रवणाभावादिकं दूषणं स्वपक्षेऽपि तुल्यं नास्मानेव प्रतिप्रयोक्तुमर्हसि ।
प्रमेयाविधुरा यस्य वचोरचनचातुरी ॥ जयन्तस्य जयं तस्य तर्कयामः कुतो वयम् ।। ३२५ ।। विस्तरेण च वक्ष्यामः पुरा पौद्गलिक ध्वनिम् ।। एवं स्थिते पुनः प्राह भट्टदर्शनलम्पटः ।। ३२६ ॥
१ न्यायमनरी पृ. २१५.
"Aho Shrut Gyanam"