________________
परि. २ स. ५] स्याद्वादरत्नाकरसहितः
३४५ आप्यं रसनं रूपादिषु सन्निहितेषु रसस्यैवाभिव्यञ्जकत्वात् मुखशोविणां लालावत् । चक्षुस्तैजसं रूपादिषु सन्निहितेषु रूपस्यैवाभिव्यञ्जकस्वात् प्रदीपवत् । वायव्यं स्पर्शनं रूपादिषु सन्निहितेषु स्पर्शस्यैवाभिव्यञ्जकत्वात् । अङ्गसङ्गिसलिलशैत्याभिव्यञ्जकवायुवत् । श्रोत्रस्य तु पुद्गलात्मकत्वमतीवासम्बद्धम् । शब्दस्य स्वसमानजातीयविशेषगुणवते. ५ न्द्रियेण ग्राह्यत्वोपपत्तेः । तथा हि शब्दः स्वसमानजातीयविशेषगुणवतेन्द्रियेण गृह्यते सामान्यविशेषवत्त्वे सति बाखैकेन्द्रियप्रत्यक्षत्वात् रूपादिवदिति । सामान्यविशेषवत्त्वादित्युच्यमाने परमाणुभिर्व्यभिचारस्तद्यवच्छेदार्थमिन्द्रियप्रत्यक्षत्वादियुक्तम् । तथापि घटादिमिळभिचारस्तन्निरासार्थमेकग्रहणम् । एवमप्यात्मना व्यभिचारस्तदपाकरणार्थ १० बाह्यग्रहणम् । बाबैकन्द्रियप्रत्यक्षत्वादित्युच्यमाने रूपत्वादिभिर्व्यभिचारस्तव्यपोहाय सामान्यविशेषवत्त्वे सतीति कृतम् । तदेतत्सर्वं स्वगृह एव मान्यम् । पृथिव्यादीनामत्यन्तभिन्नजातीयत्वासिद्धितः प्रत्येक घ्राणादीन्द्रियाणां तदारब्धत्वासिद्धेः । अत्यन्तभिन्नजातीयत्वासिद्धिश्च तेषां विषयपरिच्छेदे समर्थयिष्यते । १५ यदप्यवादी: पार्थिव प्राणमित्यादि । तदप्यसमीचीनम् । हेतोः सलिलविशेषेणानेकान्तात् । दृश्यते हि सलिलेन सिच्यमानायाः क्षितेर्गन्धस्याभिव्यक्तिः । न च सलिलं पार्थिवम् । आप्यं रसनमित्याद्यप्ययुक्तम् । हेतोर्लवणेन व्यभिचारात् । तस्याप्यनाप्यत्वेऽपि रूपादिषु सन्निहितेषु रसस्यैवाभिव्यञ्जकत्वप्रसिद्धेः । दृष्टान्तश्चात्र २० साधनशून्यः । लालाद्रव्यस्य कुमारवृत्तिकायां क्षिप्तस्य गन्धाभिव्यञ्जकत्वेनापि प्रतीतेः । चक्षुस्तैजसमित्याद्यप्यनुपपन्नम् । हेतोर्मणिनाsनैकान्तिकत्वात् । स हि रूपादीनां मध्ये रूपस्यैव प्रकाशको न च तैजसः । पृथ्वीप्रकरणे “ पाषाणा उपलमणिपर्वतादयः" इति प्रशस्तभाष्ये पार्थिवत्वाभिधानात् । वायव्यं स्पर्शनमित्याद्यप्यलौकि. २५
१ 'ग' इति नास्ति प..भ. पुस्तकयो । २ प्रशस्तपादभाष्ये पृ. १३ पं..१०.
"Aho Shrut Gyanam"