SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ परि. २ सू. ३] स्याद्वादरत्नाकरसहितः ३३७ ननु दूरदेशवर्तिनां प्रमातृणां पर्वतः पादयादीनभिभूयात्मानमेवोपदर्शयत्यतः साध्यविकलो दृष्टान्त इति चेत् । तन्न सुन्दरम् । यतस्तेषां देशविप्रकृष्टतया तद्रहणयोग्यत्वाभावादप्रतिभासो नाभिभवात् । मशकादिशब्दानां त्वविप्रकृष्टानामपि भेर्यादिशब्दरभिभवः समस्ति ततो न तेषां स्वोत्पत्तिदेशस्थानामेव ग्रहणम् । यदपि प्रतिपाद्यते तच्छब्दतः श्रोत्राभिघातातेषामग्रहणं यथा भासुररूपेण चक्षुषोऽभिघातासूक्ष्माग्रहणमिति । तदप्यसम्बद्धम् । दृष्टान्तदार्टान्तिकयोवैषम्यात् । तिग्मरुचिमरीचयो हि मुकुरादेर्भासुररूपात्प्रतिनिवृत्य चक्षुषाभिसम्बध्यमानास्तस्याभिघातहेतवो दृष्टाः अतीवालोके तदभिघातादृष्टेः । न चात्र तथाविधं किञ्चिदस्ति यच्छब्दात् प्रतिनिवृत्य श्रोत्राभिघातकारणं १० भवेत् । वायुः स्यादिति चेत् । निर्वाते तर्हि न स्यात्तदश्रवणम् ! श्रोत्राभिघातकारणाभावात् । दृश्यते च निर्वातेऽपि भेर्यादिकोलाहले सत्यल्पीयसो मशकादिशब्दस्याग्रहणम् । अतोऽन्योन्यप्रदेशोपसर्पणेनानपैरल्पशब्दानामभिभवोऽभ्युपगन्तव्यः। तथा च दूरादिदेशादागतत्वादेवास्य गन्धादिबद्दरादित्वं ततोऽपि च श्रोत्रस्य प्राप्यकारित्वं सिद्धम् । १५ ___ यदि चास्याप्राप्यकारित्वं सिद्धं स्यात्तदा रूप इव तद्विषये देशादिसन्देहो न स्यात् । यथैव हि रूपे प्रतीयमाने किमस्मिन् देशे रूपमेतत्प्रतिभात्यन्यस्मिन् वाऽस्यों दिश्यन्यस्यां वेति न सन्देहो नियतदिग्देशतयैवास्याप्राप्यकारिणेन्द्रियेण प्रतिपत्तिसम्भवात्तथानाप्यसौ न स्यात् । अस्ति चायं किमन्तर्जातोऽयं शब्दो बहिर्वा प्राच्या दिश्यन्य- २० स्यां वेति । अथ चक्षुषा प्रेक्ष्यमाणे वस्तुनि देशस्यापि तेनैव प्रतीतयुक्तस्तत्र तदपेक्षयापि देशाद्यसन्देहः । शब्दे तु नैवम् । श्रवणेन देशाप्रतीतेः । तर्हि योऽपि कचित्तदसन्देहः सोऽपि न स्यात् । तत्रापि श्रोत्रेण देशाग्रहणात् । अथ चक्षुषा तद्रहणं भविष्यति । कुडयादिव्यवहितदेशसमुद्भवशब्दे किं अवीषि । अनुमानेनास्त्येव तत्रापि २५ १ 'अभाव' इति नास्ति प. भ. पुस्तकयोः । "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy