________________
३३६
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. २ मू. ३
तत्कारणस्य पारावारकुहरसञ्चारिशुक्तिसम्पुटादेर्दूरत्वात् । निकटकारणकुटुम्बघटितस्य घटादेर्दूरं नीतस्य दूरतया प्रतीतिश्च न स्यात् । दूरदेशस्थितत्वादेव तस्य तु दूरादित्वे स्वोत्पत्तिदेशस्था एव शब्दाः श्रोत्रैर्गृह्यन्ते नत्वागता इत्यभ्युपगन्तव्यं स्यात् । तथा च निर्वाते दूरस्थेन मनागपि न श्रूयते यः शब्दस्सोऽनुकूलवाते कथं श्रूयेत । यश्चासन्नेन प्रमात्रा श्रूयते स एव प्रतिवाते कम्मान्न श्रूयते । प्रतिवातेन श्रोत्राभिघाताच्छब्दस्य नाशितत्वाद्वा । यदि श्रोत्राभिघातात्, तर्हि निर्वातप्रदेशस्थेन दूरादपि श्रूयेत । प्रतिवाताभावेन तच्छ्रोत्रस्यानभिधातात् ।
शब्दस्य नाशितत्वे तु यस्याप्यसौ वातोऽनुकूलस्तेनापि न श्रूयेत । १० नाशितत्वाविशेषात् ।
अथ च मुरजमधुरध्वानाधीनं विकस्वरवल्लकी
क्षणितकलितं तालैस्तारन्तरङ्गितपञ्चमम् ॥ स्थितवति जनस्पन्दे मन्देऽनुकूलसमीरणे
विलसति तथा दूरादीतं निशासु निशम्यते ॥ ३२३ ।। दूरदेशवर्तिप्रमातारं प्रति तेनास्य प्रेरणे तु तच्छ्रोत्रेण प्राप्तोऽसौ गृह्यते इति सिद्धमम्य प्राप्यकारित्वम् । अन्यच्च यदि स्वोत्पत्तिदेश एव सर्वे शब्दाः प्रलयभाजः । कथं तर्हि नलिकाशब्दम्य भेर्यादिशब्दम्य वा कर्णशप्कुलीगृहादिप्रपूरणेन प्रतिपत्तिः स्यात् । कथं वा धवलगृहादौ प्रतिशब्दप्रादुर्भावः । न हि लोप्टादयः कांस्यपात्रादिभिरसंसृष्टाः शब्दमुपजनयन्तः प्रतीयन्ते । यदि स्वोत्पत्तिदेशस्था एव शब्दाः श्रोत्रेण गृह्यन्ते । तदा तत्रस्थैर्भेर्यादिशब्दैमहद्भिरल्पीयसोऽपि मशकादिशब्दस्यानभिभवादनाकुलमिव गृहणं स्यात् । तथा
च प्रयोगः । ये स्वोत्पत्तिदेशस्था एवेन्द्रियेणासन्निकृष्टा गृह्यन्ते न तेषु २५ महद्भिरल्पीयसामभिभयो यथा पर्वतेन पादपादीनाम् । स्वात्पत्ति
देशस्था एवेन्द्रियेणासन्निकृष्टा गृह्यन्ते च शब्दा इति ।
२०
"Aho Shrut Gyanam"