________________
३३९
परि. २ सू. ३] स्याद्वादरत्नाकरसहितः तत्र दूरादिव्यवहारस्य दूरादिदेशादागतत्वेनोपपद्यमानत्वात् । दृश्यते हि गन्धस्य प्राणेन्द्रियेण सन्निकृष्टम्यापि ग्रहणे दुरादिदेशादागतत्वेन दूरे बकुलपरिमल इत्यादिव्यवहारः । ___ अथ यदिदं देशापेक्षया शब्दस्य दुरादित्वं तम्कि देशस्याग्रहणे स्याद्रहणे वा । न तावदग्रहणे । देशस्य विशेषणत्वात् । यत्खलु ५ विशेषणं तद्गृहीतमेव विशेष्ये विशिष्टप्रतीतिनिबन्धनम् । यथा दण्डादि । विशेषणं च शब्दस्य दूरादिप्रतीतो देश इति । नापि ग्रहणे । यतः कथं तद्हणं श्रोत्रेण चक्षुरादिना वा । यदि श्रोत्रण, तदा देशस्यापि शब्दत्वप्रसङ्गः । श्रोत्रग्रहणलक्षणत्वात्तस्य । चक्षुरादिना तु तहणं न सर्वत्र सम्भवती । व्यवहितदेशस्यापि शब्दस्य श्रूयमाणत्वात् । तद्- १० खिलमफलम् । अव्यवहितदेशसमुद्भवे ध्वनौ देशस्य चाक्षुषप्रत्यक्षेण लक्ष्यमाणत्वात् । इतरस्मितु तस्मिन् आनुमनिकी देशप्रतिपत्तिः । तथाहि यावतो दुरात्प्रत्यक्षागमोपलब्धकारणव्यापारभाविनः शब्दस्य समागतस्य यान्विशेषानुपलब्धवांस्तानदृष्टकारणस्यापि शब्दस्य विशेषानुपलभमानस्तावति दूरे शब्दोत्पादं प्रतिपद्यते । यथा कैश्चिदेव १५ विशेषश्शङ्खादिकं च वक्तृविशेषं च प्रतिपद्यते । यस्तु तथाभूतान्विशेषान्न लक्षयति तस्य संशय एव दृश्यते । कस्य कुतो वार्य शब्द इति । देशविशेषे चानुमिते प्रामादिकं सम्भाव्य तत्र शब्दोत्पादं व्यपदिशति ।
भवतापि यद्येवं नोपेयते । तदा कुतस्तत्र प्रतीयमाने दूरादिता- २०. प्रतीतिः । किं स्वभावत एवास्य दूरादित्वाद्दरादिकारणप्रभवत्वात् दूरादिदेशे स्थितत्वाद्वा । न तावदाद्यः पक्षः, प्रतिनियतदूरनिकटादिव्यवहाराभावप्रङ्गात् । दूरादिकारणप्रभवत्वेन चास्य दूरादिव्यवहाराहत्ये चै वक्षःस्थललुठन्मुक्ताफलकलाये प्रेक्ष्यमाणे दूरत्वव्यवहारः स्यात् ।
१'च' इति भ. पुस्तके नास्ति !
"Aho Shrut Gyanam"