________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. ३ एवमप्राप्यकारित्वं श्रवणस्य स्थितं ततः !!
वैधयेणास्य नो युक्तं दृष्टान्तत्वप्रदर्शनम् ।। ३२० ॥ प्रामाणिकेषु प्रवरस्त्वमेव त्वमेव ताथागत वावदूक ||
सखे यदेतां जगतोऽप्यपूर्वां प्रमेयमुद्रां प्रकटीकरोषि ॥ ३२१ ॥ ___ तत्र यदुक्तमनुमानं यो दूरादिप्रत्ययग्राह्य इत्यादि । तत्र शब्दः स्वग्राहकेणासन्निकृष्ट एव गृह्यत इत्येवंविधस्य गम्यमानपक्षस्य प्रत्यक्षबाधा । कर्णशतप्रविष्टस्य मशकादिशब्दस्य सन्निकृष्टस्यैव प्रत्यक्षेण प्रतीतेः । दूरादिप्रत्ययग्राह्यत्वलक्षणो हेतुश्च गन्धेनानैकान्तिकः । तस्य
स्वग्राहकेण सन्निकृष्टस्य ग्रहणेऽपि दूरादिप्रत्ययग्राह्यत्वप्रतीतेः । न च १० तथा प्रतीयमाने गन्धे दूरनिकटादिव्यवहारोऽसिद्धः । यतः
दूरादुच्छृङ्खलोऽयं बहुलपरिमलः काममभ्येति भूयान्
गन्धोद्गारातिरेकं किमपि जलरुहां जृम्भतेऽसौ समीपे ॥ मध्यस्था: प्रोद्धमन्ति प्रकृतिसुरभयः सौरभं सत्कदम्बाः
.. सुव्यक्तेयं प्रतीतिनिखिलतनुभृतां निर्विवादा समस्ति।।३२२॥ ___ किं च दूरादिप्रत्ययग्राह्यत्वं शब्दे साकारज्ञानवादिनः सौगतस्यानुपपन्नम् । श्रावणज्ञानेन स्वगते शब्दाकारे गृह्यमाणे दूरनिकटादिव्यवहारस्यायुज्यमानत्वात् । निराकारं हि यस्य ज्ञानं भिन्नदेशमर्थं परिच्छिनत्ति तस्येदं दूरमिदं निकटमिति वक्तुमुचितम् । साकारज्ञानवादिनः
पुनर्यद्दरादि न तज्ज्ञानवेद्यमवेद्ये च न दूरादिव्यवहारो युक्तः । न हि २० नष्टनयनस्येदं दूरमिदं निकटं चेति व्यवहारस्तात्त्विकोऽस्ति । यच्च
वेद्यं ज्ञानस्य स्वाकारमात्रं न तत्तद्दरादिस्वरूपम् । ज्ञानस्वरूपादभिन्नत्वात् ।
अथाकारधायकस्य दूरादित्वाद्दरादिव्यवहारः तर्हि व्यर्थः श्रोत्रस्याप्राप्यकारित्वसाधनप्रयासः । श्रोत्रेण सन्निकृष्टस्यापि शब्दस्य ग्रहणे
"Aho Shrut Gyanam"