SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रात्रस्य परि. २ सू. ३] स्याद्वादरत्नाकरसहितः ३३३ दुनिवारा । अस्माभिस्तु प्रदीप एवोपलम्भं प्रति निमित्तमुच्यते । स च स्वयोग्यतावशेन दूरात्सामान्यमेवोपलम्भयतीति युक्तम् । तद्वदेव यदि चक्षुषोऽपि योग्यता स्वीक्रियते कृतं सन्निकर्षेण । संन्निकर्षाभावे योग्यमपि कथमुपलम्भं करोति चक्षुः । न हि योग्योऽपि प्रदीपोऽप्राप्त पटादि प्रकटयतीति चेत्, ननु कुत एतत् । तस्य व्यवहिताप्रकाशकत्वादिति चेत् । न । अस्य निराकृतत्वात् । अनुमानबाधितं च चक्षुषः प्राप्तार्थप्रकाशनम् । तथा हि चक्षुरप्राप्तार्थप्रकाशकं व्यवहितस्यापि प्रकाशकत्वात् यत्तु नैवं न तदेवं यथा श्रोत्रं तथा चेदं ततस्तथा । प्रसाधितं च काचादिव्यवहितम्यापि चक्षुषः प्रकाशकत्वमिति न साधनासिद्धिः । योग शाम्यतु तवैष दोहदः प्राप्यकारिणि तदीक्षणे क्षणात् ॥ १० हन्त यत्किमपि कर्कशोत्तरैः कीलिता सकलयुक्तिमण्डली ।। ३१८ ॥ - दामातः शाक्यसिंहस्य शिष्यो मिति स्वीकुर्वतो बौद्ध जल्पत्येवं प्रस्तुतार्थोपधाति ।। स्य मतमुपपाद्य दृष्टान्तत्वं नैव कर्णेन्द्रियस्यातत्खण्डनम् । भाति न्यायोपेतमुक्तप्रयोगे ।। ३१९ ॥ १५ तथा हि चक्षुषोऽआप्तार्थप्रकाशकत्वे साध्थे श्रवणेन्द्रियस्य विपक्षताऽनुपपन्ना । चक्षुष इव तस्याप्यप्राप्तार्थप्रकाशकत्वात् । “चक्षुःश्रोत्रमनसामप्राप्तार्थप्रकाशकत्वम्" इत्यभिधानात्। प्राप्यकारित्वे च श्रोत्रस्य तद्गोचरे शब्दे दूरादिव्यवहारो न स्यात् । अस्ति चात्रायं दूरे शब्दो निकटे शब्दः श्रूयत इति प्रतीतिः । अतोऽप्राप्यकारित्वभेवास्यो. २० पपन्नम् । तथा च प्रयोगः । यो दूरादिप्रत्ययग्राह्यः स स्वग्राहकेणासन्निकृष्ट एव गृह्यते यथा तथाविधपादपो दूरादिप्रत्ययग्राह्यश्च शब्द इति । न चासन्निकृष्टस्य शब्दस्य ग्रहणे कथं ततः श्रोत्राभिघात इत्यभिधातव्यम् । भासुररूपस्यासन्निकृष्टम्य ग्रहणेऽप्यतश्चक्षुषोऽभिघातोपलम्भात् । इयांस्तु विशेषोऽत्र तेजस्विताऽभिघातहेतुः । शब्दे तु २५ तीव्रतेति। "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy