________________
३३२
प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. ३ यदप्यवादि प्रथमतो हि चक्षुः सन्निहितमित्यादि, यदपि च संस
निद्रव्यतया निःसरदेव नायनं तेजो बाह्यालोकेपरेण भूधरशशधरयोयुगपग्रहणाभावः प्रदर्शितः नेकताङ्गतं युगपदेव तावदथैः संसृष्टमिन्द्रिय
तत्खण्डनम् । मुत्पादितवदिति भूधरशशधरयोस्तुल्यकालग्रहणमुपपद्यत इति केनचित् उच्यते तदपि चक्षुषो रश्मिवत्त्वपराकरणादपाकृतम् । उत्तरमते च पृष्ठस्थितस्य व्यवहितस्य चार्थस्योपलम्भः । प्रसज्यते । अथानार्जवावस्थितस्य व्यवहितम्य कथं ग्रहणमस्तु । मैवम् । आर्जवावस्थितम्य व्यवधानाश्रयणस्येन्द्रियप्राप्त्यर्थत्वात्तस्याश्च
तथास्थितेऽप्यर्थे सञ्जातत्वात् । १० यदि च चक्षुः प्राप्यकारि । तदा कथं संशयविपर्ययप्रादुर्भावः। सामान्य
. वद्विशेषाणामपि सन्निकृष्टानामुपलम्भसम्भवात् । चक्षुषः प्राप्यकारित्वे संशयावपर्यययोरनुत्पत्ति- तथा च कथं विशेषानुपलब्धिनिबन्धनौ संशयवि
प्रसंजनम् । पर्थयौ स्याताम् । यत्पुनरात्रेयभाष्यकारः प्राह । "यथा सामान्यस्य विशेषाणां च प्रदीपालोकेन सन्निकृष्टत्वेन दूरात्सा१५ मान्यमुपलभ्यते न विशेषा इति प्रदीपालोककारितौ संशयविपर्ययो
भवतः तथा सामान्यस्य विशेषाणां च चक्षुषा सन्निकृष्टत्वेऽपि दूरा
सामान्यमुपलभ्यते न विशेषा इति चाक्षुपौ संशयविपर्ययौ भवतः । तत्र महाविषयत्वात्सामान्यं दूरादप्युपलभ्यतेऽल्पविषयत्वातु विशेषा न दूरादुपलभ्यन्त इति संशयविपर्यययोरुपपत्तिः ” इति । तदपि न क्षोदक्षमम् । महाविषयत्वस्योपलम्भं प्रत्यप्रयोजकत्वात् । न खलूपलभ्यमानादितरे विषयाः कणिकयापि तत्सामान्यज्ञप्तावुपयुज्यन्ते । यतस्तद्भूयस्त्वं दूरात्तत्स्थसामान्योपलब्धौ निमित्तं स्यात् । यस्तु प्रदीपो दृष्टान्ततयोपदिष्टः सोऽपि न श्रेष्ठः । येन हि सन्निकर्ष उपलम्भकारणतया कथ्यते तस्य प्रदीपेऽपि सामान्यवद्विशेषाणामुपलम्भकत्वप्रसक्ति
"Aho Shrut Gyanam"