________________
परि. २ सू. ३] स्याद्वादरत्नाकरसहितः
३३१ यत्केनचिदुच्यते । तदपि परास्तम् । अयस्कान्तेन च व्यभिचारीदम् । तेनाप्राप्तस्यैव लोहस्याकर्षणात् । __ अथ तस्यापि प्राप्तस्यैवाकर्षणम् । अयस्कान्तो हि वायुद्वारेण तदाकर्षति यथा पुरुषो नालान्तर्वायुप्रयोगेण पानीयादि । संयुक्तसंयोगश्चात्र प्राप्तिः । तदसत् । वायोस्तत्राप्रमाणत्वात् । न तावत्प्रत्यक्षं तदाह- ५ कम् । अननुभवात् । अनुमानमपि नास्ति । समाकर्षणस्यान्यथानुपपत्तिरम्ति इति चेत्, न । अप्राप्तस्याप्याकर्षणोपपत्त्यास्या उपक्षीणत्वात् । अप्राप्तस्याघ्याकर्षणे कथं न सकललोहाकर्षणम् । प्राप्तम्याप्याकर्षणे कथं न तद्देशवर्तितृणतूलादिसमाकर्षणम् । तस्यायोग्यत्वादिति चेत् । अनयैवोक्त्यामृतमास्वादय । सकललोहानामयोग्यत्वादप्राप्तत्वा- १० विशेषेऽपि नाकर्षणं भवेदस्ति चैतदिति तुल्यम् । वाद्यन्तरं प्रत्येवाम्य योग्यतेति चेत् , किमेतदेवान्यत्रापि न पश्यसि । किं च कुतोऽयसः समाकर्षणान्यथानुपपत्तिः । कारकत्वाख्याद्धेतोरिति चेत् । अयमभिसन्धिः। सकलं कारकं प्राप्त एव वस्तुनि फलमुत्पादयदवलोकितं कारक एवायस्कान्त इति । तदसुन्दरम् । इतरेतराश्रयप्रसङ्गात् । कारक- १५ त्वस्य हेतुत्यसिद्धावयस्कान्तस्य प्राप्तार्थसमाकर्षणसिद्धिस्तत्सिद्धौ च कारकत्वस्य हेतुत्वसिद्धिरिति । यदि च वायुद्वारेण तदाकर्षणमुच्यते । तदा तिर्यगेव तदाकर्षणं भवेन्न पुनरूद्धम् । वायोस्तिर्यक्पवनस्वभावत्वात् । वात्यादौ तु विरुद्धदिक्क्रियवायुद्वयसंयोगनिमित्तल्वेनोर्ध्वगते - वद्भिर्व्यवस्थापितत्वात् । न चात्रापि तथाविधा कल्पना ज्यायसी । २० तथाननुभवात् । अनुमानवाधितं च तत्र वायुपरिकल्पनम् । तथा हिं' चुम्बको नायसो वायुद्वारेणाकर्षकस्तत्रावस्थितलघुतरतृणतूलाधनाकर्षणान्यथानुपपत्तेः । कथं च तिलकादिना कान्तादीनामाकर्षणम् । तत्रापि पवनोऽस्तीति महासाहसिकस्योल्लापः । न खलु यथा चात्यादिना परवशीभूता कान्ता समानीयते । तथात्रापि पवनविशेषेणेति २५ प्रतीतिरस्तीति ।
'च' इति प. भ. पुस्तकयोः पाठः।
"Aho Shrut Gyanam"