SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ३३० प्रमाणनयतत्त्वालोकालङ्कारः परि. २ स. ३ चेत्, तर्हि सापि प्राप्तिः प्राप्यैव कर्तव्येति प्राप्तिपरम्परोत्पाद एवोपशान्तशक्तित्वात्प्रस्तुतकार्यानिप्पत्तेरनवस्था । अन्यथेति पक्षे त्वनयैव व्यभिचारः । अथ ज्ञानरूपकार्यापेक्षयैव चक्षुषः प्राप्यकारित्वसाधनान्नोक्तदोषानु५ षङ्गः । ननु कुत एतदाप्तमायुष्मता । प्राप्यकारीति शब्दस्य प्राप्ति पूर्वक्रियामात्राभिधानपर्यवसितत्वात् । न च शब्दान्तरमस्ति यत्सन्निघानादयं " देवस्य शृंगारिणः” इत्यादिवदभिमतार्थवृत्तिः स्यात् । __ अथ सैन्धवादिवत्प्रकरणवशादस्याभीष्टार्थनिष्ठाभिधीयते । ताँहि प्राप्य वा चक्षुप्तिं कुर्यादप्राप्य वेत्यत्र प्रस्तावे प्रोच्यते चक्षुः प्राप्ये१० त्यादि । तदपि नोपपन्नम् । एवं सति निदर्शनम्य साध्यशून्यतापत्तेः । परश्वधो हि पादपं प्राप्य द्वैधीभावमेव विधत्ते नतु ज्ञप्तिम् । अथाभिदध्यात्कश्चित्, स्वविषयज्ञप्तिकरणापेक्षया परशुर्निदर्शनमुपदर्शितो न च्छिदपेक्षया । तथा च न साध्यवैकल्यं दोषः । प्राप्यैवे न्द्रियं तेन ज्ञप्तिकरणादिति । सोऽपि नोपपन्नवक्ता । यतश्चाक्षुषीं स्पा१५ र्शनी वा ज्ञप्तिमपेक्ष्य तेनैतदुच्येत । यदि पौरस्त्यम् । तदा सैव साध्य शून्यता निदर्शनस्य । चक्षुरर्थयोः प्राप्तेरद्याप्यसिद्धेः । अथ स्पार्शनी तामपेक्षोच्यते । अस्त्वेवम् । किन्तु हेतोर्मेरुणा मनःपरिच्छेद्येन व्यभिचारः । भौतिकेनापि तेन मनोऽप्राप्तेनैव स्वपरिच्छित्तिकरणात् ।। __ अथ करणभूतेन येन परिच्छित्तिर्जन्यते स एव प्राप्यकारीह २० सङ्गतो न विषयत्वेनापि । तर्हि दृष्टान्तान्तरं वक्तव्यम् । न प्रकृतम् । अस्तु प्रदीपादिरेवासौ तेन हि करणभूतेन रश्मिद्वारेण प्राप्त एवार्थः प्रकाश्यत इति चेत् । नैवम् । एवमपि हेतोः प्रतिबन्धानिश्चयात् । साधर्म्यमात्रेण तन्निश्चयायोगात् । अप्राप्यकारित्वमपि स्पृशतो भौतिकत्वस्य न किञ्चित्परिपन्थिप्रमाणमिति । एतेन कारकत्वादिति साधनं १ 'निष्ठता' इति प. पुस्तके पाठः । २'तथापि' इति प. भ. पुस्तकयोः पाठः । "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy