________________
परि. २ सू. ३] स्याद्वादरत्नाकरसहितः
३२९ न्तश्च साधनविकलः | त्वगिन्द्रियस्यार्थदेशानाश्रित्वात् । द्वितीयपक्षेऽपि प्रवृत्तिराभिमुख्येन प्रसप्पणरूपो व्यापारः प्रतीत्युत्पादकत्वं वा । प्रथमे प्रतिवाद्यसिद्धिः । न खलु प्रतिवादिना नयनरश्मयोऽर्थदेशेऽपसर्पन्तः म्वीकृताः । तेन नयनस्यातैजसत्वेन प्रतिपादनात् । तत्साधकस्य रूपादिषु नियमेनेत्यादिप्रमाणस्य प्राक्पराकृतत्वेन बाधकस्य चोपन्यस्तत्वे. ५ नोभयासिद्धिर्वा । साधनविकलतात्रापि दृष्टान्तम्भ स्पष्टैव । अर्थाभिमुख्येन प्रतीत्युत्पादकत्वं पुनर्मनसैवानैकान्तिकम् । अथ शरीरावहिर्देशे गोलकस्वरूपे समाश्रितत्त्वं बहिर्देशावस्थायित्वम् । चेतसा च व्यभिचारोत्सारणाय बाह्येति विशेषणम् । तद्धि देहान्तर्देशसमाश्रितमिति । तदप्यबन्धुरम् । इन्द्रियबाह्यत्वस्याप्राप्तार्थपरिच्छेदेनापि सार्द्धम- १० विरोधात् । न चाविरुद्धं विशेषणं विपक्षण ततो हेतुं निवर्तयति । न चे विरोधसाधनसावधानं किञ्चिदिह प्रमाणमस्ति । ___ अथ मनसि प्राप्तार्थपरिच्छेदव्यावृत्त्या बाह्येन्द्रियत्वस्यापि व्यावृत्तेविरोधसिद्धिरभिधीयते । नैवम् । क्वचित् साध्यनिवृत्तौ साधननिवृत्तावपि विरोधस्यासिद्धेः । अन्यथा चक्षुरप्राप्तार्थपरिच्छेदि स्पर्शनरसन- १५ नासाश्रोत्रान्येन्द्रियत्वात् मनोवदित्यतः कश्चिचक्षुषोऽप्राप्तार्थपरिच्छेद प्रसाधयन् कथं प्रतिरोत्स्यते । समस्ति खल्चत्राप्यप्राप्तार्थपरिच्छेदव्यावृत्त्या स्पर्शनरसननासाश्रोत्रान्येन्द्रियत्वस्यापि व्यावृत्तिः स्पर्शनादाविति। तस्माध्यतिरेकानिश्चयात्सन्दिग्धव्यतिरेको हेतुः । बहिष्कारणप्रभवत्वमपि मनसैव व्यभिचारि। आत्मापेक्षया हि बहिष्कारणं पुद्गलतत्त्वं २० तत्प्रभवत्वं च चक्षुरादीन्द्रियवन्मनसोऽप्यस्त्येव । तस्यापि पौद्गलिकत्वेन षट्पदार्थपरीक्षायां समर्थथिप्यमाणत्वात् । चक्षुः प्राप्यकारि भौतिकत्वादित्यत्रापि प्राप्यकारीति कोऽर्थः । प्राप्य संयुज्य स्वकार्य करोतीति चेत् । ननु प्राप्तिरपि स्वकार्य तदपि च प्राप्य करोत्यन्यथा वा। प्राप्य
१ 'मध्ये' इत्यधिक प. भ. पुस्तकयो। २ 'च' इति नास्ति प. भ. पुस्तकयोः । ३ . वचन ' इति भ. पुस्तके पाटः ।
"Aho Shrut Gyanam"