________________
खण्डनस्य खण्डनम् ।
३२८
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. ३ वैचित्र्यात्तद्विज्ञानभावाभाववैचित्र्यम् । तदितरत्रापि तुल्यम् ! स्याद्वादिनामपि चक्षुरप्राप्यकारि केषाञ्चिदतिशयज्ञानभृतामस्मदाद्यगोचरविप्रकृष्टस्वविषयस्य परिच्छेदकम् । तादृशतदावरणक्षयोपशमविशेषसद्भावात् । अम्मदादीनां तु यथाप्रतीति पदार्थप्रकाशकत्वं स्वानुरूपतदावरणक्षयोपशमविशेषादित्युभाभ्यामभ्युपगन्तव्या योग्यता । अधिकश्चास्माकमनुभवः साक्षी । अनुमानं चानन्तरं निरूपितम् । यत्तु कन्दलीकारो व्याकरोति । “योग्यताभावाव्यवहिताग्रहणमिति
__ चेत् । इन्द्रियस्य तावद्योग्यता विषयग्रहणकन्दलीकारोक्तयोग्यता
US सामर्थ्य मस्त्येव तदानीमव्यवहितग्रहणात् ।
विषयस्यापि योग्यता महत्त्वानेकद्रव्यवत्वरूपविशेषाद्यात्मिका व्यवधानेऽप्यनिवृत्तव | आर्जवावस्थानमपि तदवस्थमिति"। तदप्येतेन निरस्तम् । प्रभातुस्तादृशक्षयोपशमरूपतग्रहणयोग्यताया अभावात् । कथमन्यथा निशीथिनीनाथरूपस्येव तद्दतेरुपलम्भो
न भवेत् । अथ भास्वरत्वाद्दरादपि रूपं तस्योपलभ्यते नतु गतिस्तद्वि१५ परीतत्वात् तर्हि तदुत्सङ्गसङ्गतः कुरङ्गकलङ्क: सैंहि केयनिकेतनैकदेशश्च
नोपलभ्येत । तद्रूपाभावेन सितत्वेन तदुपलम्भे कतरो गतावपराधः । यन्नासौ दृश्यते । तदेवं न व्यवहिताप्रकाशकत्वानुमानं साधीयः । नापि बाह्येन्द्रियत्वानुमानम् । तत्रापि प्रतिपादितदोषाणां प्रायः प्रसर्पणात् ।
किं च किमिदं वाह्येन्द्रियत्वं चक्षुषः । किं बहिरर्थग्रहणाभिमुख्यं, बहिर्देशावस्थायित्वं, बहिष्कारणप्रभवत्वं वा स्यात् । तत्र प्राचीन चेतसा व्यभिचारि । तस्याप्राप्तसुपळपर्वतस्वर्गादिपरिच्छेदकत्वेऽपि बहिरर्थग्रहणाभिमुख्यतया बाह्येन्द्रियत्वात् । द्वितीयपक्षेऽप्यर्थदेशः शरीराबहिर्वा बहिर्देशो विवक्षितः । व्यवस्थायित्वमपि पौरस्त्यपक्षेऽर्थदेशाश्रितत्वमर्थाभिमुख्येन प्रवृत्तिर्वा स्यात् । आद्यपक्षे उभयासिद्धिः । चक्षुषो २५ गोलकान्तर्देशसमाश्रितत्वेन वादिप्रतिवादिभ्यामभ्युपगतत्वात् । दृष्टा
१. हि' इत्यधिक प. पुस्तके । २ न्या. के. पृ. २३ पं. ७.
"Aho Shrut Gyanam"