________________
३२७
परि. २ सू. ३] स्याद्वादरत्नाकरसहितः तयोरन्यतरबलीयस्त्वे युगपद्भावाभावात्मकवस्तुप्रतितिविरोधात् । न हि वस्तुनो भाव एव कदाचित्प्रतीयते । स्वरूपादिचतुष्टयेनेव पररूपादिचतुष्टयेनापि भावप्रतीतिप्रसक्तेः । न चानाद्यनन्तं सर्वात्मकं वस्तु प्रतिभाति । यतस्तथाभ्युपगमः श्रेयान् । नाप्यभाव एव वस्तुनोऽ. नुभूयते । पररूपादिचतुष्टयेनेव स्वरूपादिचतुष्टयेनाप्यभावप्रतिपत्तिप्रस- ५ ङ्गात् । न च सर्वथाप्यसत्प्रतिभाति । यतस्तदभ्युपगमोऽपि कस्यचित्प्रतितिष्ठेत । प्ररूपयिष्यते च भावाभावप्रतिभासनम् । ततः सर्वथोत्पादे विनाशे च पुनः पुनः स्फटिकादौ दर्शनसान्तरस्यादर्शनस्य प्रसञ्जनं दुर्निवारामिति स्थितम् । न चैवं प्रदीपे कथं नैरन्तर्यभ्रम इति वाच्यम् । सर्वथोत्पादविनाशयोस्तत्राघटमानत्वादिति वक्ष्यते । सन्दिग्धव्यति- १० रेकि च व्यवहिताप्रकाशकत्वम् । अप्राप्तार्थपरिच्छेदित्वेऽपि व्यवहिताप्रकाशकत्वस्याविरोधात् । यत्तूक्तमप्राप्तत्वाविशेषाव्यवहितवत्कुड्यादिव्यवहितमपि किं न
गृह्णीयादिति । तदप्यसङ्गतम् । योग्यतावशेनैव अप्रातार्थपरिच्छेदपक्षे . व्यवहितस्यापि प्रका- तेन प्रकाशनात् ! अभ्युपगतं च भवताप्येतत् । १५ शकत्वमिति किर- कथमन्यथा स्फाटिकान्तरितस्येव समलजलान्तशावलिकारोक्तप्रस गत्यापाकरण । रितस्यापि भावस्योपलम्भो न भवेत् । अथ
पाथो विध्वसितत्वाल्लोचनतेजो न तद्भित्त्वाऽर्थेन सम्बध्यते इति कथं तद्रुपलम्भः । तर्हि स्वच्छसलिलान्तरितस्यापि तस्यानुपलम्भः स्यात् । कथं वा कुडयादेन रश्मिभिर्भेदः । नहि तत्तेजो २० विरोधि । स्फटिकादावपि तद्विरोधित्वापत्तेः । प्रसन्नतानिमित्तस्तु तद्भेदः पूर्वमेव व्यपास्त: । किं च घ्राणं यथा कैरवस्यैवं परमाणोरपि गन्धं कुतो न प्रकाशयेत् । अथ प्रकाशयत्येव योगिनो घ्राणं परमाणुगन्धमपि ! नास्मदादेः । तादृगदृष्टविशेषस्याभावात् । महत्त्वाद्युपेतद्रव्यगन्धादि तु प्रकाशयति । तादृगदृष्टविशेषस्य सद्भावात् । इत्यदृष्ट- २५ १ ' स्वभाववस्तु प्रतिभासनम् ' इति प. पुस्तके पाठः ।
"Aho Shrut Gyanam"