SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ३२४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. ३ नुमानेन बाधनम्। भाषमाणेन निःसारमित्येवं भूषण त्वया ॥ सत्यं सत्यापयांचक्रे भूषणं भस्मभङ्गिभिः ॥ ३१६ ॥ ततोऽनुभूतभासुररूपस्याभिव्यञ्जकत्वाघटनादसिद्धं ते रूपाभिव्यञ्ज कत्वं चक्षुषि । अनुमानबाधितं च चक्षुसस्तैजचक्षुषस्तैजसत्वस्या । सत्वम् । चक्षुषस्तैजसं न भवति तमःप्रकाश कल्वाद्यन्नैवं न तदेवं यथा प्रदीपस्तथा चेदं तम्मात्तथेति । न च तमसोऽसत्त्वेनासिद्ध तत्प्रकाशकत्वम् । अस्य प्रसाधयिष्यमाणत्वात् । तदेवं तैजसत्त्वस्यासिद्धत्वान्न चक्षुषि रश्मिवत्त्वसिद्धि निबन्धनत्वम् । १० अथ वचन निरन्तरतिमिरनिकरकरम्बितापवरककाणे निषण्णस्य जरमार्जारस्येक्षणे प्रत्यक्षतो रश्मिवत्त्वप्रतीतेस्तन्निदर्शनेनान्यत्रापि नेत्रत्वहेतुना तत्सिद्धिरभिधीयते । तर्हि तरुणरमणीवीक्षणे कटाक्षलक्षप्रक्षेपाः प्रेक्ष्यन्ते तत एव करभादिलोचनेऽपि तसिद्धिः किं न स्यात् । तस्मान्न साधर्म्यमात्रेण हेतोर्गमकत्वमपि लन्यथानुपपन्नत्वेन । न चात्र तदस्ति । १५ तद्राहकप्रमाणस्यासम्भवात् । न च मार्जारनेत्रेऽपि रश्मिवत्त्वं नः सिद्ध गिति प्रागुक्तम् । तदित्थं दृशो रश्मिवत्त्वाप्रसिद्धरसम्बद्धमुक्तमधिष्ठानदेशात्यसरद्रश्मिरूपावयवसमवेतमित्यादि । अनुमानबाधितश्च चक्षुषः प्राप्तार्थपरिच्छेदनपक्षः । तथा हि चक्षुः प्राप्तार्थपरिच्छेदि न भवत्यत्यासन्नार्थाप्रकाशकत्वाद्यात्पुनवं न तदेवं यथा प्राणं तथा चैतत्तस्मात्तथेति । न चान हेतुरसिद्धः । गोलकसंसर्गिणोऽञ्जनम्य लोचनेनाप्रकाशनात् । अथात्यासन्नोऽथों योग्योऽयोग्यः सामान्यतो वा विवक्षितः । आद्यपक्षे हेतोरसिद्धिः । योग्यम्यात्यासन्नस्य सर्वस्य तेन प्रकाशनात् । अञ्जनस्य तु न योग्यता । प्रसरतो हि नयनरश्मिसमूहस्य यत्तत्प्रगुण देशेऽवस्थितं तदेव चक्षुर्ग्रहणे योग्यम् । न चाञ्जनं तथा । तम्य २५ पक्ष्मपुटतटोदृङ्कितस्य गोलकान्तनिःसरतां मूले भृणालसूत्रसूक्ष्मेण रश्मिसमूहेन सार्थं प्रगुणत्वायोगात् । द्वितीये तु पक्षे व्यभिचारः । "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy