________________
परि. २ सू. ३] स्याद्वादरत्नाकरसहितः
३२५ स्पर्शनादीनामाकाशपरमाणुप्रमुखात्यासन्नायोग्यपदार्थाप्रकाशकत्वेऽपि माप्ताथपरिच्छेदकत्वात् । तृतीयेऽप्ययमेव कलङ्कः । तदखिलं प्रलापमात्रम्। पतो यदि नाम सूक्ष्मरश्मि दंष्ट्रादिस्वकीयालीककल्पनयाञ्जनमयोग्य पर्यकल्पि तथापि सकलगोलकच्यापितिमिरकामलादिषु कः प्रतीकारः । से हि तव्यापित्वादेव तद्रश्मीनां प्रगुणदेशस्थिताः । यथा स्फुटस्फटिक- ५ काचादिकूपिकाकोडोपगतप्रदीपरश्मीनां स्फाटिकादिकूपिका इति । न च स्पर्शनेन प्राप्तार्थप्रकाशकेनाप्यत्यासन्नस्याभ्यन्तरशरीरावयवस्पर्शस्याप्रकाशनादत्यासन्नार्थाप्रकाशकत्वम्यानेकान्तः आभ्यन्तरशरीरावयवानां स्पर्शनेन्द्रियकारणत्वेन तत्सम्बन्धिस्पर्शस्य तदविषयत्वात् । अकारणस्य तु जलादेः पीयमानस्य शिशिरस्पर्शोऽभ्यन्तरमनुभूयत एव । व्यवहिता- १० प्रकाशकत्वादिति हेतुरप्यसिद्धः । कुलिशकाचाभ्रपटलस्वच्छसलिलस्फटिकोपलान्तरितानामपि पदार्थानामुपलम्भात् । अथ चक्षुरश्मयः । कुलिशादिकं विभिद्य तदन्तरितपदार्थदेशमुपसर्पन्ति ततस्तदुपलम्भः तर्हि तूलपटलान्तरितपदाथोंपलम्भः सुतरां भवेत्तस्य सुभेदत्वात् । ये हि किमपि कर्कशमतिशयनिशितशस्त्राभेद्यं दम्भोलिस्फाटिकादिकमपि १५ भिन्दन्ति न ते तूलपटलीं भेदयितुमलमिति कः सकर्णः कर्णेऽपि कुर्वीत।
यत्पुनरुदयन उदचीचरत् । “स्कटिकाधन्तरितोपलब्धिः प्रसादस्फटिकादीनां प्रसादस्व-समाचारकादाना तजागतरणातब भावतया तेजोगतर- कतया प्रदीपप्रभावद्भवेदुपपन्ना" इति । तदपि प्रातबन्धकत्वामि- नोपपन्नम् । न हि प्रसन्नतानिमित्तको मूर्त्तद्रव्यस्य २०
खण्डनम् । मूर्तद्रव्यान्तरेण गतेरप्रतिवन्धः क्वापि प्रैक्षि । किन्तु प्रशिथिलावयवारभ्यत्वनिमित्तकः । यथा तूलादिभिरेव जलादीनां न पुनः स्फटिकादिभिः । तद्वदिहापि तूलादय एव नयनरश्मिगतेरप्रतिबन्धकाः । न स्फटिकादयः । स्फटिकान्तर्गतप्रदीपरश्मयस्तु न तं भित्वा प्रसरन्ति । किन्तु तत्सम्पर्कमासाद्य स्फटिकपरमाणुपुञ्ज एव २५
१ न ' इति प. पुस्तके नास्ति ।
त्युदयनमतस्य
"Aho Shrut Gyanam"