________________
परि. २ सू. ३] स्याद्वादरत्नाकरसहितः ।
३२३ प्रभाप्राग्भारपरिरब्ध इव निकटोपटीकमानमनुष्येण दृश्येत । न च तेषामतितनुतरतया न नरान्प्रत्यभिव्यञ्जकत्वमिति वाच्यम् । रात्रिश्वरानपि प्रति तदभिव्यञ्जनविरोधात् । उद्भूतभासुररूपत्वेन हि तेषामभिव्यञ्जकत्वं तच्चोमयत्र तुल्यम् । यद्वा सन्तु मार्जारनेत्रयोमरीचयो यत्र चाकचक्यायमानतास्ति काचित् । यत्र तु गृहगोधिकादि- ५ चक्षुषि न किञ्चिन्निशि चकास्ति तत्रोद्भुतभासुररूपा रश्मयः सन्तीति कः स्वस्थः कथयेत् । दर्शनयोग्यं हि रूपमुद्भूतमुच्यते । अन्यथा मनुष्यनेत्रेषु तदनुभूतताभ्युपगमः किंनिमित्तकः स्यात् । अनुद्भूतताभ्युपगमे तु गृहगोधिकादिचक्षूरश्मीनामालोकनिरपेक्षाणामेव प्रकाशकत्वमवलोकितमिति कथं प्रदीपादिप्रकाशसहितानां तदुपपत्तेरिति प्रागुक्त- १० मुपपद्यते ।
यत्तु तेनैव नेत्ररश्मिञ्चनुद्भूतरूपतामनिच्छतावाचि । अथवालोकावयवसहितेभ्यस्तदवयवेभ्य उद्भूतरूपा एव नायना रश्मयः उत्पद्यन्ते । दृष्टौ हि तेजसामाशुतरविनाशोत्पादौ । रूपस्पर्शी चोद्धृतानुद्भूतत्वधर्मविकल्पोपेतावित्युद्धृतरूपत्वेनोत्पन्नानामपि रश्मीनामन्यस्मिन्समावेशाद्वि- १५ वकेनाग्रहणम् । यथाऽनेकप्रदीपरश्मीनामेकार्थसम्बद्धानामिति । तदपि नोपपद्यते । यतो यदि नामालोकमिलितमनुप्यलोचनेप्येवम् । तथापि बहुलनिशीथे निरन्तरमञ्जनकुवलयदलश्यामलान्धकारकलापेऽतिशयसइटितविकटकपाटसम्पुटापर्वरककोडे विचरतां गृहगोधिकादिपिपीलिकादिपापीयःप्राणिनां साक्षादपि पश्यतां कथं रश्मीनामुपलम्भो न २० भवेत् । तत्रालोकमिलनस्यासम्भवात् । अथ यत्रालोकमिलनं तत्रैव तेषामुद्भूतानामुत्पत्तिः । तर्हि गृहगोधिकादिनेत्ररश्मीनामप्रकाशकत्वं स्यात् । अनुद्भूतभासुररूपत्वादिति प्रागुक्तान्न मुच्यसे ।
१. अभिव्यजक' इति म. पुस्तके पाठः । २ भित्तिविभेदको महाकायो मूषकविशेषः । ३ 'मङ्कुशतकुवलय' इति प. भ. पुस्तकयोः पाठः । ४ अपवरकं -गृहम् ।
"Aho Shrut Gyanam"