SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ परि. २ सू. ३ } स्याद्वादरत्नाकरसहितः परस्परस्यापि स्वेष्टसिद्धया स्वमतव्याघातः । तेजोरूपनयनसन्निकर्षेणापि व्यभिचारी प्रकृतहेतुः । अयं हि रूपादिषु रूपस्यैवाभिव्यञ्जकोऽस्ति न च तैजसः । अथ द्रव्यत्वे रूपादिषु नियमेन रूपस्याभिव्यञ्जकत्वादिति विशिष्य हेतुरुच्यते । तदाप्यञ्जनादिनानैकान्तः । अथ तैजसमेवाञ्जनं न पुनः पार्थिवम् । तत्रानुद्भूतस्य तेजोद्रव्यस्य भावादिति चेत् । तदयुक्तम् । प्रमाणभावात् । तैजसमञ्जनं रूपावभासने नयनस्य सहकारित्वात्प्रदीपवदिति प्रमाणमस्तीति चेत् । तदचतुरस्रम् | चेतसा व्यभिचारस्य दुप्परिहारत्वात् । अथ रूपस्यैवावभासने नयनस्यैव वा सहकारित्वादित्यवधारणगर्भसाधनोपदर्शनेन सकलानां विषयाणामिन्द्रियाणां वा १० साधारणस्यान्तःकरणस्य व्यवच्छेदेन व्यभिचारपरिहारः क्रियते । तदाऽऽद्यपक्षे हेतुरसिद्धः । द्रव्यादेरपि व्यञ्जनेऽञ्जनस्य नयनसहकारित्वात् । द्वितीये तु दृष्टान्तस्य साधनवैकल्यम् । रूपेऽपि स्वविषयतयावभासं जनयति प्रदीपस्य सहकारितया नयनं प्रत्येव सहकारित्वासम्भवात् । अथ रूपादिषु मध्य इत्यादिहेतोरेवाज्जनस्य तैजसत्यसिद्धि- १५ रुच्यते । तर्हि निदर्शनं वाच्यम् | प्रदीप एवेति चेत् । न । अस्य साधनशून्यत्वात् । ३२१ अहो किमिदमुच्यते किं प्रदीपः प्रबोधितो न रूपमभिव्यनक्ति रसादीनपि चाभिव्यनक्ति । उच्यते । अभिव्यञ्जयत्येवायं स्वान्तर्निमग्नानामगुरुमृगनाभिकर्पूरशकै लादीनां सुरभिपरिमलोद्गारं नामकर्णिका - २० विमर्द्दककरतलमिव नागकर्णिकादेः । एवं चक्षुषस्तैजसत्वसिद्धयनुमानेऽपि साधनवैकल्यं दृष्टान्तस्य वाच्यम् । अपि च यदि चक्षुषस्तैजसत्वं स्यात्तदा कथं न तत्र भास्वररूपोपलम्भः । तेजसि तस्य स्वाभाविकत्वात् । अनुद्भूतत्वादिति चेत्, नन्वेवं रूपाभिव्यञ्जकत्वमस्य दुरुप १ ' शलाका' इति प. भ. पुस्तकयोः पाठः । "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy