________________
३२०
प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सु. ३ चेदं तस्मात्तथेत्यतस्तत्सिद्धेः । रूपस्याभिव्यञ्जकत्वादित्युक्ते मनसा व्यभिचारो भवेत् । तद्धि रूपव्यञ्जकं न च तैजसमिति तद्व्यवच्छेदार्थ नियमेनेति पदम् । न हि मनो रूपस्यैव व्यञ्जकं गन्धादीनामपि व्यञ्जकत्वात् । एवमपि रूपत्वद्रव्यादिव्यञ्जकत्वोपलब्धेरसिद्धत्वं स्यादिति रूपादिषु मध्ये इत्युक्तमिति चेत् । तदसुन्दरम् । इन्दुदीधितिप्रतिबन्धे तदिति प्रतिबन्धे रूपादिष्वित्यादिहेतोरनैकान्तिकत्वात् । न च शुचिरोचिःशोचिःसञ्चयस्यापि तैजसत्वान्न व्यभिचार इति वाच्यम् । उष्णस्पर्शशून्यत्वेन तैजसत्वासम्भवात् । तथा तेजःप्रकरणे वैशेषिकभाष्यम् । ' उष्ण एव स्पर्शः' इति । ___ यत्पुनरुदयनोऽत्राह ' एवैकारश्चन्द्रचामीकरचक्षुरादिष्यनुपलम्भहेतुकां विप्रतिपत्तिमपनेतुं, तेषां तेजसत्वेनोष्णत्वानुमानात्' इति । तदबन्धुरम् । शशधरेऽद्यापि तैजसत्वासिद्धेः । अथ प्रस्तुतहेतुत एवात्रापि तत्सिद्धिरभिधीयते । तदशस्यम् । अस्यानुमानबाधितपक्षा
नन्तरोपन्यस्तत्वेन कालात्ययापदिष्टत्वात् । तथाहि न चन्द्रस्तैजसः १५ शैत्यहेतुत्वात् पाथोवदिति । सति च सुधांशोरतैजसत्वे सुतरां तन्मरी
चीनामतैजसत्वम् । ___ यस्त्वयं कस्यचिदागमः । ( जलकल्लोलश्चन्द्रस्तत्र प्रतिहतास्तपनांशवः प्रद्योतन्ते शिशिराश्च भवन्ति तत एव शैत्यहेतव ' इति ।
सोऽपि स्वैरालापः । कस्य पयोराशेरयं कल्लोलः । कथं तं विहाय २० विहायस्तरमाललम्बे ! कुतः परिमण्डल एव कथं न स्पन्दते। काठिन्य
मातो वा । तत्प्रतिफलितास्तपनांशाः शिशिराः सुखालोकाः सकलदिवप्रसारिणश्च भवन्ति । कथं च न दिवापि तत्प्रतिफलनमित्यादि विचारचतु:पथासश्चरिष्णुत्वात् । तथाविधस्यापि स्वीकारे
१ . प्रबन्धे । इति म. पुस्तके पाठः । २ “ तदिति प्रतिबन्धे' इति नास्ति म. पुस्तके। ३ वैशेषिकदर्शने प्रशस्तपादभाष्ये पृ. १५ पं. ८. ४ किरणावल्या पृ. २८३ पं. २. ५ ' बन्धुरं तुलतानतम् ' न चतुरस्त्रमित्यर्थः । ६ अप्रशस्यमित्यर्थः। ७ ' तथा च ' इति प. भ. पुस्तकयोः पाठः ! ८ आकाशतलम् । ९ ' विचारयितुः पथा' इति म. पुस्तके पाठः ।
"Aho Shrut Gyanam"