________________
परि. २ सू. ३]
हरिणलक्ष्मणम् । युगपत्प्रतिपत्त्यभिमानस्तु शतपत्र पत्र शतव्यतिभेदवदा
शूत्पत्तिनिमित्तकः ।
स्याद्वादरत्नाकरसहितः
एवं च ढोचनस्य प्रासिध्यत् प्राप्यकारिता श्रुतिवत् ॥ तन्नयनसन्निकर्षाभाववचः सङ्गतिं कथमुपैतु ॥ ३१४ ॥ एषामहो जगदपूर्वपदार्थसिद्धौ
कोऽप्येष दुर्द्धरतरः खलु पक्षपातः ॥ किन्त्वस्यवापि स न कश्चन युक्तिलेशः
३१९.
प्राप्नोति यः किमपि हन्त तदानुरूप्यम् || ३१५ ॥ तथा हि यत्पौरस्त्यमनुमानम् । तत्र भावचक्षुर्दव्यचक्षुर्वा धर्मितया वर्खेत । न तावद्भावचक्षुः । त्वया तस्वाक्क्षीकारेण धर्मिणोऽप्रसिद्धौ १० साधनस्याश्रयासिद्धताप्रसक्तेः । कक्षीकारेऽपि नास्य पदार्थेन प्राप्तिः सिद्धयति । भावचक्षुः खल्वात्मनो बुद्धिलक्षणो गुणः प्राप्तिरपि पदार्थेन संयोगो गुणः । न च गुणे गुणान्तरमस्ति । निर्गुणत्वात् तगुणानाम् । द्रव्यचक्षुरपि गोलकरूपमन्यद्वा किञ्चिद्भवेत् । आद्यपक्षे प्रत्यक्षवाधः प्रतिज्ञायाः । प्रत्यक्षेण परिच्छित्तिकाले पदार्थासम्बद्धस्यैव १५ गोलकस्योपलब्धेः : । अन्यथा तदानीं पुंसः पक्ष्मप्रदेशे प्रकटकोटरोपलम्भः स्यात् । पदार्थस्य वा गोलवदेशे प्रतीतिः स्यात् । अथान्यत्किञ्चिचक्षुरिन्द्रियं धैर्मितया यधिष्ठाननिष्ठमेवं पटिष्ठमर्थपरिच्छेदे स्वीक्रियते । तदा स एव तदेशे पदार्थस्योपलम्भः स्यात् ।
अथाधिष्ठानदेशात्प्रस रद्राश्मिरूपावयवसमवेतं चक्षुः प्रत्यार्थेन सम्ब- २० ट्र्थते संम्बद्धं चोपलम्भयति । तदसुलभम् । चक्षुः प्रसृत्य नार्थेन सम्बद्धय गादिवदित्यनुमानबाधापातात् चक्षुषो रश्मिवत्त्वासिद्धेः । अथ रश्मिवच्चक्षुस्तैजसत्वात् यदित्थं तदित्थं यथा ज्योतिस्तथाचेदं तस्मातथेत्यतस्तत्सिद्धिः । न चासिद्धं तैजसत्वम् । चक्षुस्तैजसं रूपादिषु मध्ये नियमेन रूपस्याभिव्यञ्जकत्वाद्यदेवं तदेवं यथा दीपस्तथा २५
१' धर्मि तद्यद्यधिष्ठान ' इति प. भ. पुस्तकयोः पाठः ।
" Aho Shrut Gyanam"