________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ स. २ स्यास्पष्टत्वम् । अन्यास्पष्टत्वादन्यस्यास्पष्टत्वेऽतिप्रसक्तिः । अर्थधर्मत्वे पुनरम्य कथमतो व्याप्त्यादिज्ञानस्याप्रत्यक्षत्वं प्रसिध्येत्। व्यधिकरणाद्धि हेतोः साध्यसिद्धौ काकस्य कााद्धवलः प्रासाद इत्यादेरपि गमकत्व
प्रसङ्ग इति चेत् । तदपि दुराशामात्रम् । स्पष्त्वेऽप्येतस्य तुल्यत्वात् । स्पष्ट५ त्वमपि हि यदि ज्ञानधर्मस्तर्हि कथमर्थे स्पष्टता । अतिप्रसक्तेः । विषये विषयिधर्मस्योपचाराददोघेऽत एवान्यत्राप्यदोषोऽस्तु । संवेऽदनस्यैव ह्यम्पष्टता धर्मः स्पष्टतावत् । यदि तु तस्याः परिच्छेद्यपदार्थधर्मत्वं स्वीक्रियते । तर्हि सर्वदा तथा प्रतिभासप्रसङ्गात्कुतः प्रतिभासपरावृत्तिर्भवेत् । ननु
विषयिधर्मस्य विषयेषूपचारात्तत्र स्पष्टत्वास्पष्टत्वव्यवहारे विषयिणोऽपि १० झानस्य स्पष्टत्वधर्मतासिद्धिः कुतः । किं तज्ज्ञानगोचरज्ञानान्तरगत
स्पष्टत्वास्पष्टत्वाभ्यां स्वतो वा । प्रथमपक्षेऽनवस्था । द्वितीयपक्षे त्वविशेषेण निखिलज्ञानानां स्पष्टत्वमस्पष्टत्वं वा प्रसज्येतेति चेत् । तदप्यचारु । अन्यथैव ज्ञाने स्पष्टत्वास्पष्टत्वधर्मतासिद्धेः । तथा हि प्रबल
तरज्ञानावरणवीर्यान्तरायकर्मक्षयोपशमविशेषात्काचिद्विज्ञानस्य स्पष्टत्वं १५ विपरीतात्तु तस्मादस्पष्टत्वम् ।
स्पष्टज्ञानस्वरूपत्वं तत्प्रत्यक्षस्य लक्षणम् ।।
व्यवस्थितमिदं युक्तिप्रतीतिभ्यामवाधितम् ॥३१२॥२॥ अथ स्पष्टत्वमेव प्रकटयन्नाह ॥अनुमानाद्याधिक्येन विशेषप्रकाशनं स्पष्टत्वमिति
॥३॥ अनुमानादिभ्यो वक्ष्यमाणभेदेभ्धः सकाशादाधिक्येनातिरेकेण विशेषाणां नियतवर्णसंस्थानार्थीकाराणां प्रकाशन प्रतिभासनं यस्य ज्ञानस्य तत्स्पष्टत्वं वैशद्यमित्यर्थः । तदुक्तम् ' अनुमानाद्यतिरेकेण विशेषप्रतिभासनम् । तद्वैशयं मतं बुद्धेरवैशद्यमतः परम्।।१॥' इति ।
'परोक्षप्रमाण' इत्यधिकं प. पुस्तके । २ — संस्थानाद्यर्था' इति प. पुस्तके पाठः ।
"Aho Shrut Gyanam"