________________
परि. २ स. २]
स्याद्वादरत्नाकरसहितः
तर्हि तज्ज्ञानं प्रत्यक्षम् । तस्य सामान्यगोचरत्वास्वीकारात् । तस्वीकारे वा प्रमेयद्वैविध्यात्प्रमाणद्वैविध्यमित्यङ्गीकारस्य भङ्गप्रसङ्गः । सविकल्पकत्वानुषङ्गश्च प्रत्यक्षम्य । अथ विशेषस्तज्ज्ञाने प्रतिभासते । ताह ततः प्रवर्तमानस्य प्रतिपत्तुर्वह्रिविशेषसंशयो न प्रादुर्भवेत्ताओं वात्राग्निः पार्णो वेति यथा सन्निहिते वह्निविशेष । न खलु पावकं ५ सन्निहितमवलोकमानस्य तत्र संशयः समुल्लसति । समुल्लासे वा तम्य शब्दाल्लिङ्गाद्वा विशेष प्रतिपाद्यमानस्यापि प्रमातुरसौ समुल्लसेत् । तथा चेदमसङ्गतं भवेत् शब्दाल्लिाहा विशेषप्रतिपत्तौ न तत्र सन्देह इति । तन्नेदमकम्माद्भुमदर्शनाद्वहिरवेति ज्ञान प्रत्यक्षम् । किं तर्हि लिङ्गदर्शनसमुत्थत्वादनुमानम् । दृष्टान्तावष्टम्भ विनाप्यनुमानं भवतीत्येतच्च पुरस्ता- १० दुपपादधिप्यते । व्यातिज्ञानमप्यस्पष्टत्वेनाप्रत्यक्षं व्यवहारिणां सुप्रतीतम् । व्यवहारानुकूल्येन प्रमाणचिन्ता प्रतन्यते भवद्भिः । प्रामाण्य व्यवहारेणेत्यभिधानात् । न च व्यवहारिणां सर्वेऽम्यादयो धूमादयो बा स्पष्टज्ञानगोचरा इत्यभ्युपगमोऽस्ति । अनुमानस्य वैद्यर्थ्यप्रसक्तेः । समस्तं हि व्याप्तं व्यापकं च स्पष्टत्वेन १५ युगपनिश्चिन्वतः प्रमातुर्न किंचिदतुमानेन साध्यं सम्भवति । अन्यथा योगिनामप्यनुमानबलात्पदार्थनिश्चयप्रसङ्गः । समारोपनिषेधार्थमनुमानस्य प्रवृत्तमानत्वान्न वैयर्थ भिति चेत् । तदप्पनुचितम् । निश्चिते समारोपस्यासम्भवात् निश्चयसमारोपयोः परस्परं विरुद्धत्वात् । अथ कालान्तरमाविसमारोपनिषेधकत्वेन नानुमानस्य वैयर्थ्यम् । एवं तर्हि १० क्वचिदुपलव्धदेवदत्तस्य पुंसः पुनः कालान्तरेऽनुपलम्भाख्यसमारोपे सत्यनन्तरं यत्स्मरणादिकं तस्याप्यवैयर्थं स्यात् । तथा च प्रमाणान्तरमेतदापयेत । तन्न प्राप्तिज्ञानमप्यस्पष्टत्वात् प्रत्यक्षं युक्तम् ।।
ननु चास्पष्टत्वं ज्ञानधर्मोऽर्थधर्मो वा । यदि ज्ञानधर्मः ! कथमर्थ१ तृगजन्यः । २ पर्णजन्यः । ३ . सान्नहितं पावकं ' इति प. पुस्तके पाठः । ४ ' किं' इति नाति भ. पुस्तके । ५'च' इत्याधिक प. पुस्तके । ६ 'मानवै यर्थं ' इति प. पुस्तके पाठः ।
"Aho Shrut Gyanam"